________________
५२
त्रिषष्टिशलाकापुरुषचरित्रम्
अंहः संहतिमन्तयत्यपि महा-तीर्थान्युपास्याथवा,
किं किं नाद्भुतमर्जयत्यभिमतं यात्राप्रवृत्तः पुमान् ।। ९३ ।।
(शार्दूलविक्रीडितम्)
एतद् विमृश्य स्त्रीरत्नवर्ज सर्वाण्यपि रत्नान्यर्प्ययित्वा सर्वसन्नाहेन विसृष्टास्ते । गच्छन्तश्च क्रमेण सम्प्राप्ता अष्टापदपर्वतसमीपम् । पृष्टं तैः कोऽयं पर्वत इति । ततोऽमात्यैर्विज्ञप्तम् । देव! श्रीयुगादिनाथस्य पुत्रेण भरतचक्रिणाऽमुत्राऽष्टापदनामनि पर्वते चतुर्विंशतेरर्हतां प्रतिमाभिः सहितमुत्तुङ्गं जिनायतनं कारितम् । युगादिदेवस्य चाऽत्र निर्वाणकल्याणकं सञ्जातमतो महातीर्थमयं सानुमानिति । ततस्तैस्तत्रारुह्य कृतं स्नानादिकं सर्वप्रतिमानाम्, विशेषतश्च श्रीमदजितस्वामिप्रतिमायाः । पूजावन्दनानन्तरं सर्वतोऽपि तं पर्वतं विलोकयतां तेषां समुत्पन्ना चिन्तास्वर्णापूर्णतनुर्नमेरुनिचितो, मेरुर्न केनाप्यसौ,
दृष्टः स्पष्टतराणि रोहणगिरौ, रत्नानि कः प्रेक्षते ।
माणिक्योपलकान्तिचुम्बितवियत्यस्मिंस्तु दृष्टे नगे,
नक्षत्रेष्वपि रत्नधीर्विरमति, द्रष्टुर्निकृष्टांशुषु ।। ९४ ।। (शार्दूलविक्रीडितम्) ततो दुःषमाकालमाहात्म्यादत्यर्थमर्थलुब्धैर्नरैरवश्यं खनित्वा गृहीष्यतेऽसौ । ततः क्रियते कोऽपि रक्षणोपायो, जीर्णोद्धारपुण्यं चार्जितं भवेदिति । दण्डरत्नमादाय जह्नुना ज्येष्ठसुतेन तत्पार्श्वतः सहस्रं योजनान्यगाधत्वे खानिता परिखा । ततो नागलोके जातः क्षोभः । प्रकुपितो ज्वलनप्रभनामा नागकुमारः । समेत्य च जह्रुसमीपं प्रोवाच । केनाऽस्माकमुपद्रवोऽकारीति । जह्नुनाऽप्यूचे नागेन्द्र ! तीर्थरक्षार्थमिदं कृतम् । न पुनस्त्वद्भक्त्यैति । ततोऽतः परं नापराद्धव्यमित्युक्त्वा गतः स्वस्थानं नागेन्द्रः । अन्यस्मिंश्च दिने जह्नुना सोदरैः सहालोचितम् । कालेन रिक्तायाः परिखायाः पूरणमपि सम्भाव्यते । ततो दण्डरत्नेन गङ्गाप्रवाहमानीय पूर्यतेऽसौ । ततः साधु साध्विति भणित्वा गताः सर्वेऽपि गङ्गाम्। समाकृष्य १ सुरपुन्नागः । । २ विभागबुद्धिना ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org