________________
त्रिषष्टिशलाकापुरुषचरित्रम्
५१
रात्रौ सायुधः सावधानो वर्तते । ततश्च भावनश्रेष्ठी परिहासार्थमनुपलक्षितो मध्ये प्रविष्टः । पुत्रेण हरिदासेन चौरशङ्कया खङ्गेन हतो विपन्नश्च । द्वावपि कतिचित् भवान् भ्रान्तौ । सम्प्रति च पूर्णमेघोऽयं भावनजीवः, सुलोचनश्च हरिदासजीवः । अनयोश्च वैरं बहुजन्मान्तरसम्बद्धमिति । ।
I
पुनश्चक्रिणा पृष्टम् । तत्पुत्रयोरनयोः कौ वैरहेतुरिति । प्रभुरप्याह । चक्रिन् ! भवान् प्राग्भवे परिव्राजकोऽभूत् तव शिष्याविमौ । शशी आवलिश्च । आवलिस्तु स्वभावविनीतत्वात् तवातिवल्लभोऽभूत् । एकदा आवलिना मूल्येन क्रीता धेनुः । शशिना चान्तराले पतित्वा सा गौर्गृहीता । ततः प्रभृत्यनयोर्जातं वैरम् । बहून् भवान् भ्रान्त्वाऽनन्तरभवे च रक्षः पतिभीमपुत्रो भूत्वा शशी स एष घनवाहनो जातः । आवलिस्तु सहस्रनयनो जातः । त्वं च दानप्रभावाच्चक्री जातः । तत वाऽनयोरुपरि तव स्नेहः ।।
अत्रान्तरे रक्षः पतिर्भीमो नाम तस्यामेव परिषदि समुत्थाय घनवाहनं प्रत्युवाच । वत्स ! त्वं मम पूर्वभवपुत्रः, सम्प्रत्यपि ततः पुत्र इव मे । ततस्त्वया शत्रुजनाढ्ये वैताढ्ये न स्थेयम् । मदीय एव राक्षसद्वीपे त्रिकूटपर्वते मयैव मण्डितायां लङ्कायां नगर्यां स्थातव्यम् । द्वितीयस्यां वा भूमध्येऽधस्तात् षड्योजनायां सपादयोजनशतप्रमाणायां पाताललङ्काख्यायां पुर्यां चिरन्तन्यां स्थातव्यम् । मया द्वेऽपि पुर्यौ तव दत्ते। तीर्थकरदर्शनफलं तवाऽस्मिन्नपि भवे जातमित्युक्त्वा नवमाणिक्यमयं हारं राक्षसीं विद्यां तत्रैव तस्य दत्तवान् सः । घनवाहनोऽपि सहर्षं प्रतीष्य प्रभुं नत्वा गतस्तत्र । ततः प्रभृति राक्षसवंशस्तस्मात्प्रवृत्तः । व्याख्यानविरतौ च गताः सर्वेऽपि स्वं स्वं स्थानम् । प्रभुरप्यन्यत्र विजहार ।।
सगरचक्रिणश्च जह्नुप्रमुखाः षष्ठि सहस्राः सुता जाता: । प्राप्ताः तारुण्यम् । अन्यदा तीर्थयात्राप्रसङ्गेन षट्खण्डभरतक्षेत्रविलोकनाय तैरापृष्टः पिता । चक्रिणापि
1
आत्मानं विदितं करोति सकले भूमण्डले पश्यति,
स्थाने स्थाने परिक्रियां स्वपरयो- रप्यन्तरं विन्दति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org