SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५० त्रिषष्टिशलाकापुरुषचरित्रम् इतश्च रथनूपुरसत्कपूर्णमेघविद्याधरेशेन परिणेतुमियं प्रार्थिता, न चास्याः पित्रा दत्तेति। ततः सुलोचनः पूर्णमेघेनाऽऽगत्य मारितः । ततः सहस्रनयनः स्वभगिनीमिमां गृहीत्वात्रायात इति । तत्रान्तरे सहस्रनयनोऽप्यागतः । तेन प्रणम्य चक्री नीतः स्वावासे, परिणायितः स्वभगिनीम् । स्त्रीरत्नीकृता सापि चक्रिणा प्रसन्नेन । सहस्रनयनेन समं गतश्चक्री गगनवल्लभे। तत्र निवेशितः पैतृके राज्ये चक्रिणा सहस्रनयनः कृतश्च श्रेणिनायकः । ततश्चक्री विद्याधरविमानच्छन्नगगनाङ्गणः समागतः सहस्राक्ष इव व्योम्ना स्वां राजधानीम् । तत्र च बद्धमुकुटैः सर्वैरपि भूपालैः कृतश्चक्रवर्तित्वाभिषेको द्वादशवर्ष्या च समर्थितः ।।। तत्र चान्यदा समवसृतः श्रीमानजितनाथः । समायाताः शक्रादयः सगरादयश्च वन्दितुम् । इतश्च पितृवधक्रुद्धेन सहस्रनयनेन पूर्णमेघो हतः । ततः पूर्णमेघपुत्रो घनवाहनः प्रणस्य तत्रैव समवसरणे समायातः । पृष्ठतश्च सहस्रनयनोऽपि तं हन्तुमागतः। परं प्रभुसन्निधौ न प्रभवन्ति वैराणीति मनाक् स शान्तो जातः। प्रभुणा च कृता देशना ।। जानानोऽपि जन: कुकर्मकुगते राज्यं निमित्तं तथाप्येतस्मान्न निवर्त्तते किमपरं, गर्वाद् गुरून् निन्दति । मग्नः कष्टमहार्णवे प्रतिपदं, सन्तप्यते संस्मरत्यात्मीयां प्रतिकूलतां न च तदा, त्राणं किमप्यस्य तु ।।१२।। (शार्दूलविक्रीडितम्) इत्याकर्ण्य प्रतिबुद्धाः सर्वेऽपि । भगवन्ननयोः पूर्णमेघसुनेत्रयोः किं वैरकारणमिति प्रभुश्चक्रिणा पृष्टः । प्रभुरप्याह ।। सूर्याभे पुरे भावनो नाम महाद्रव्यपतिर्वणिक् स्वपुत्रस्य हरिदासस्य द्रव्यं समर्प्य स्वयं देशान्तरे विशेषवणिज्यार्थं गतः । प्रचुरं च द्रव्यमुपाय॑ द्वादशानां वर्षाणामन्ते समागत्य पुरीद्वारे रात्रिरिति बहिरेव समावासितः। अत्युत्कण्ठितश्च सार्थं मुक्त्वा रात्रावेकाकी स्वगृहद्वारमागतः । तदानीं च नगरे चौरभयमिति सर्वोऽपि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy