SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् ४९ सगरेण । ततः सर्वसन्नाहेन चक्रपृष्ठानुलग्नः सगरोऽपि गतः पूर्वमार्गेण मागधतीर्थम्। गृहीत्वा तत्प्राभृतं गतो दक्षिणेन वरदामतीर्थम् । तदुपदामादाय प्राप्तः पश्चिमेन प्रभासे तटौ कनकं गृहीत्वा सिन्धुदक्षिणतटे । ततः प्राप्तो वैताढ्ये ततोऽपि तमिश्राद्वारे सिन्धोश्च दक्षिणं निष्कुटं साधयित्वा समायातः सेनानीः । ततस्तमिश्राद्वारमुद्घाटितं सेनान्या प्रविष्टश्चक्री उत्तरखण्डे साधितास्तत्राऽऽयाता: किराताः । सिन्धुसागरमर्यादश्चोत्तरः सिन्धुनिष्कुट: साधितः सेनान्या । ततो लघुहिमवति गतश्चक्री। गत्वा च ऋषभकूटाद्रौ लिखितं निजं नाम । तत उत्तरपूर्वेण मार्गेण गङ्गाभवनस्यासन्नो गतस्तदुपायनं गृहीत्वा दक्षिणदिशागतः खण्डप्रपातां गुहाम् । गङ्गापूर्वनिष्कुटं साधयित्वा समागतः सेनानीः । वैताढ्यविद्याधराश्चक्रिणा साधिताः । ससैन्योऽपि निःसृतः खण्डप्रपातायाश्चक्री गङ्गायाः पश्चिमकूले गतः । सिद्धास्तत्र नवापि नैसद्यिा निधयः । गङ्गापूर्वनिष्कूटं सेनानीः साधयित्वा सम्प्राप्तः । एवं द्वात्रिंशता वर्षसहस्रेण षट् खण्डमपि भरतं साधितम् । चतुर्दशरत्नानि नवनिधय इत्यादिका चक्रिविभूतिः सम्पूर्णा सगरेणोपार्जिता । ततः समायातो विनीतायाम्। प्रविष्टो महामहोत्सवेन।। एकदा सगरश्चक्री वाह्वालीं गतो विपरीतशिक्षमश्वमारूढस्तेनाऽप्यपहत्य नीतो दूरमरण्यम् । तत्र च यावत्सरसि जलक्रीडां कुर्वन्नस्ति तावदेका दिव्याकारधरा काऽपि कन्या कञ्चुकिना सममायाता । तां दृष्टवा हृद्याक्षिप्तश्चक्री प्रवृत्तश्चिन्तयितुम् कोदण्डमिक्षुरिषवः कुसुमानि पुष्पकेतोरिति ध्रुवमियं कविवर्णनैव । विश्वत्रयं स्पृहयतः पुनरस्य जेतुं, भ्रूवल्लिरेव परमायुधमङ्गनानाम् ।।९१।। (वसन्ततिलका) दृष्टस्तयापि सस्पृहमसौ । ततो विकल्पाकुलः सन् विज्ञप्तः कञ्चुकिना । देव ! वैताढ्ये गगनवल्लभपुरे सुलोचनो नाम विद्याधरपतिस्तत्पुत्रः सहस्रनयनः सुकेशा चेयं पुत्री, नैमित्तिकेन चक्रवर्तिनः स्त्रीरत्नमेषा भविष्यतीति कथितमस्ति। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy