________________
४८
त्रिषष्टिशलाकापुरुषचरित्रम् भार्याया अप्यनाख्याय गतः शुद्धभट्टो द्रव्यार्जनायाऽन्यदेशम् । सा च गृहे एकाकिनी वसति । कदाचिद् विपुलानामगणिनी तदन्तिकमागत्येति पपाठ ।।
पावित्र्यं सदनस्य सङ्गतिरपि, स्यादुत्तमैर्मानुषैः, सत्कर्मश्रवणं कुकर्मविरतिः, सभ्यत्वसम्भावना । उत्साहोऽपि कदापि धर्मकरणे, पर्वादिकाराधना, मोहादेविलयो यते: सुवसते-र्दानादमी स्युर्गुणाः ।।१०।।
(शार्दूलविक्रीडितम्) तयापि प्रहष्टया समर्पिता स्वगृहैकदेशे तस्या गणिन्याः वसतिः । प्रतिदिनधर्माकर्णनेन च विगलिता तस्याः सर्वापि मिथ्यात्ववासना । आरोपितं सङ्घसमक्षं तस्याः सम्यक्त्वम् । जाता परमश्राविका । सकलमपि जैनमार्गमुपदिश्य वर्षानन्तरं गताऽन्यत्र गणिनी । शुद्धभट्टोऽपि द्रव्योपार्जनां विशिष्टां विधाय समायातस्तत्र। कृतश्च तया परमश्रावकः । तञ्च माहनमिथुनं मिथ्यादृष्टिभिर्लोकैर्निन्द्यते । तथापि निजसम्यक्त्वात्तन्न चलति । एवं च सति जातस्तयो पुत्रः । एकदा शीतकाले शुद्धभट्टो बालकमुत्सङ्गे कृत्वा धर्माग्निष्टिका समीपे गतस्ततोऽसावन्यैर्माहनैः परतः परतः परत इति निन्दितः । ततस्तेन कुपितेन पुत्रमुत्पाट्य यदि जिनधर्मो न प्रमाणं तदा दह्यतामयं मत्पुत्र इत्युक्त्वा सहसैव क्षिप्तः स बालको वह्नौ । ततः सन्निहितव्यन्तर्या धृतः पद्मोदरे स बालकः। विस्मिताः सर्वेऽप्यासनवर्तिनो माहनाः । जातमास्तिक्यं बहूनां हृदये। इदं च तेन स्वगृहं गतेन कथितं स्वकीयगृहिण्यास्तयाऽप्युक्तम्। न कर्तव्यं साहसमीदृशम् । यदि कदापि प्रमादिनी शासनदेवी भवति तदा धर्ममालिन्यं जायत इति । ततः प्रभृति स माहनो दृष्टप्रत्ययत्वाद् दृढतरसम्यक्त्वो जातः । अनेन च विस्मयेन कृतेन मनसि मम पार्श्वमागतोऽसौ । मया च सम्यक्त्वफलमिदमित्युत्तरं दत्तम् । एतच्च श्रुत्वा भूयांसो भव्याः प्रतिबुद्धाः । प्रभुरप्यन्यत्र विजहार ।।
अत्राऽन्तरे सगरस्यास्त्रशालायां समुत्पन्नं चक्ररत्नम् । कृता तस्याष्टाह्निका
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org