________________
त्रिषष्टिशलाकापुरुषचरित्रम्
केवलज्ञानम् । कृतं च देवैः प्राग्वत् समवसरणादिकम् । सम्प्राप्ताः शक्रादयः । सगरोऽपि सान्त पुरपौरः समायातो वन्दितुम् । कृता प्रभुणा देशना ।। निःसङ्ख्यानि दिनानि यान्ति विषय-व्यासङ्गतः प्राणिनां जीवश्चेतयते न जातु यदहं, धर्मस्य सर्वं फलम् । भुञ्जानोऽस्मि विरम्य किञ्चन पुन र्नव्यं न कुर्वेऽग्रतो;
-
येनं स्यां सुखितोऽसुखं च न पर-स्येक्षे न याम्यप्यधः । । ८९ ।।
(शार्दूलविक्रीडितम्)
इत्याकर्ण्य प्रतिबुद्धाः प्रभूताः प्राणिनः प्रवव्रजुर्जगृहुश्च सम्यक्त्वादिकम् । सगरपिता सुमित्रविजयोऽपि प्रभुणा प्रव्राजितः स्थापिताः पञ्चनवतिर्गणधराः सिंहसेनप्रभृतयः । व्याख्यानविसर्जनानन्तरं प्रणम्य गताः शक्रादयः सगरादयश्च स्वं स्वं स्थानम्।।
४७
प्रभुतीर्थे महायक्षो नाम्ना यक्षः । स च चतुर्मुखः श्यामो गजस्थो वरदमुद्गर्यक्षसूत्रिपाशिदक्षिणचतुर्भुजोऽभयदबीजपूराङ्कुशशक्तिभृद्वामचतुर्बाहुः । अजितबला शासनदेवता । सा च स्वर्णवर्णा वरदपाशिदक्षिणभुजा । बीजपूराङ्कुशिवाबाहुः ।।
अन्यदा प्रभुर्विहारक्रमेण गतः कौशाम्बीम् । तत्र व्याख्यानं भगवति कुर्वाणे समवसरणमध्ये सम्प्राप्तमेकं माहनमिथुनम् । तन्मध्यात् पुरुषेणोत्थाय पृष्टः प्रभुः स्वसङ्केतम् । भगवान् ! किमिदमिति । प्रभुणाऽप्युक्तम् । सर्वोऽप्ययं सम्यक्त्वप्रभावो नान्यदिति । ततो गणधरेण पृष्टम् । भगवन्नन्येषामपि च बोधाय सविस्तरं कथयेति । ततः प्रभुः प्राह ।।
शालिग्रामाग्रहारे' दामोदरो नाम माहनः, सोमा तस्य भार्या । शुद्धभट्टस्तयोः पुत्रः, सुलक्षणा तद्भार्या, तयोर्भोगपरयोर्मृतौ पितरौ । विभवोऽपि क्षीणः । ततो १ ब्राह्मणबहुलके ग्रामे ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org