SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५६ त्रिषष्टिशलाकापुरुषचरित्रम् कुम्भकारोऽन्यत्र गत आसीत् । कालेन स मृत्वा विराटदेशे यक्षः समुत्पन्नः । ग्रामलोकोऽपि कर्मधर्मसंयोगात् तत्रैव सर्वः समुत्पन्नः । कालेन यक्षश्च्युत्वा तत्रैव राजा जातः । ततोऽपि मृत्वा देवो वैमानिको जातः । देवोऽपिच्युत्वा त्वं भगीरथः समुत्पन्नः । ते च ग्राम्या जह्वप्रमुखाः सगरपुत्रा जाताः। मनसापि कृतेन सङ्घोपद्रवेण एवमनेकदुःखभाजो जायन्ते जन्तवः ।। ततो मुनि वन्दित्वानुज्ञाप्य गतः साकेते । मिलितश्चक्रवर्तिनः । तदानीमुद्यानपालकैरागत्य श्रीमदजितनाथः समवसृतोऽस्तीति चक्रिणो विज्ञप्तः । अर्द्धत्रयोदशस्वर्णकोटी पारितोषिके दत्त्वा भगीरथादिपरिवारेण समं गतश्चक्री वन्दितुम्, वन्दित्वा समासीनः स्वस्थाने । प्रभुणापि कृता देशना येषां जन्म सुखैकतानमनसा, प्राक्पुण्यनैपुण्यतो याति स्फातिभृतो भवन्तु सुकृते, द्वित्रान् दिनांस्तेऽलसाः । नीराणामिव नीरधौ न हृदये, सङ्ख्यापि येषां पुन१ःखानां स्पृहयन्ति ते न हि कथं, धर्माय निर्मायकाः ।।९७।। (शार्दूलविक्रीडितम्) इत्याकर्ण्य प्रतिबुद्धा सभा । चक्रयपि प्रव्रज्यार्थं प्रभुमभ्यर्थ्य गृहे गतो दानादिविधिं विधातुम् । दत्त्वा यथेच्छमर्थिभ्यो धनादिकम् । भगीरथं च विन्यस्य राज्ये । भगीरथेनैव कृतनिष्क्रमणोत्सवः सामन्तामात्यादिभिः समं श्रीमदजितनाथपादान्ते प्रव्रजितश्चक्री । भगवता सहान्यत्र विजहार च । क्रमेण चोत्पन्नं तस्य केवलज्ञानम् ।। प्रभोश्च सर्वपरिवारे पञ्चनवतिर्गणधराः । लक्षमेकं साधूनाम् । त्रिलक्षी त्रिंशत्सहस्री च साध्वीनाम् । सप्तशतान्विता त्रिसहस्री च चतुर्दशपूर्वभृताम् । सार्द्धचतुःशतीर्द्वादशसहस्री मनोविदाम् । चतुर्नवतिशती अवधिज्ञानिनाम् । द्वाविंशतिसहस्री केवलिनाम् । द्वादशसहस्री चतुःशती च वादिनाम् । विंशतिसहस्री चतुःशती च वैक्रियलब्धिमताम् । सहस्रद्वयोना त्रिलक्षी श्रावकाणाम् । पञ्चलक्षी Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy