SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् । ।। श्री अजितनाथचरित्रम् दानं निरन्तरममुष्यगतिर्नमस्या, विश्वस्य नैष विषयः प्रतिकारकाणाम् । ज्ञात्वेति लाञ्छनमिषाद गजताश्रिता यं, सन्तः श्रयन्त्वजितनाथमनेकपं तम् ।।८६ ।। (इन्द्रवज्रा ) जम्बूद्वीपे महाविदेहे वत्सविजये सुसीमायां पुर्यां विमलवाहनो राजा राज्यं पालयन्नेकदा बहिर्व्रजन् कस्याऽपि गृहे पञ्जरस्थितं बिडालदर्शनादार्त्तस्वरं व्याहरन्तं शुकं श्रुत्वा दृष्ट्वा च करुणार्द्रचेताश्चिन्तयितुं प्रवृत्तः - नाम्भः केलिसुखं सरस्सु सरसं, हेला न वेलावनें, नाकाशे सविकाशमुत्प्लुतिरसः, क्रीडा न नीडाश्रया । नासङ्गः प्रियया न बन्धुभिरभिष्वङ्गः किमस्योच्यते, कष्टं राजशुकस्य पिण्डिततनोः, स्तोकाजिरे पञ्जरे ।।८७ ।। (शार्दूलविक्रीडितम्) ४५ Jain Educationa International इत्यादिखेदव्याकुलमनाः सहसैव संसाराद् विरक्तः सुतं राज्ये नियुज्य जग्राह परिव्रज्याम् । यथावच्च परिपाल्याऽर्हद्भक्त्यादिस्थानकैस्तीर्थकरनामकर्मोपार्ज्य स्वायुः प्रान्ते मृत्वानुत्तरे विजयविमाने देवो जातः ।। जम्बूद्वीपे भरतक्षेत्रे विनीतायां पुर्यां श्री ऋषभदेवमोक्षकालात् सङ्ख्यातीतेषु व्यतीतेषु भूपतिषु क्रमेणेक्ष्वाकुवंश्यो जितशत्रुर्नृपो जात। तस्यानुजन्मा सुमित्रविजयो नाम युवराजः । जितशत्रुर्नृपस्य विजयाभिधाना पट्टराज्ञी । विजयविमानाच्युत्वा विमलवाहनजीवो वैशाखशुक्लत्रयोदश्यां रोहिणीनक्षत्रे गजादिचर्तुदशस्वप्नसूचिततीर्थकरजन्मा विजयादेवीकुक्षाववतीर्णः । सुखं च नारकाणामपि तदाऽभवत् । १ समुद्रतटे स्थिते वने।। For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy