SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४४ त्रिषष्टिशलाकापुरुषचरित्रम् दृष्ट्वा शेषावयवेभ्योऽपि वैराग्यातिशयादलङ्कारानुत्तारयन् हदि भावयति स्म ।। न विभाति वपुर्नृणामनलङ्कारं कवेः कवित्वमिव। सनिमित्ते गुणवृद्धी धातोर्धातोरिवाङ्गेऽपि।।८३।। (अर्या) अपि चअहह ! सकलं जन्मात्मीयं मया गमितं वृथा, किमिव हि तपस्तप्ये स्वल्पेतरत्प्रति किं त्वरे। न खलु विदितो जातः कैरप्यहं स्वपितुर्गुणैर्मम तदधुना पूर्णं भोगैः स्पृहा न गृहाश्रमे।।८४।। (हरिणी) एवं च भावनाधिक्यात् सहसैव घातिकर्मक्षयादुत्पन्नं केवलज्ञानम् । सम्प्राप्तः शक्रस्तेनोक्तं, द्रव्यलिङ्गं गृहाण, ततो वन्दे । भरतेनाऽपि कृतः शिर:केशोत्पाटः । देवतया चार्पितं रजोहरणादिकम् । ततो वन्दितः शक्रेण भरतमुनिः केवली । राज्ञां दशभिः सहस्रेस्तत्पृष्ठतो गृहीतं व्रतम् । आदित्ययशा भरतस्य पुत्रः स्वयं शक्रेणाऽभ्याषिच्यत राज्ये । केवलोत्पत्त्यनन्तरं पूर्वलक्षं यावद् भव्यप्रतिबोधाय विहारं कृत्वा प्रत्यासन्नमोक्षः प्रभुवदष्टापदगिरौ गतः । मासं यावदनशनं प्रपाल्य क्षीणभवोपग्राहिकर्मा मुक्तिसुखभाग् बभूव भरतचक्रिमुनिः । भरतमुनेः कौमारे पूर्वलक्षाणां सप्तसप्ततिः । माण्डलिकत्वे वर्षसहस्रमेकम् । चक्रवर्तित्वे वर्षसहस्रोना पट्पूर्वलक्षी । व्रते पूर्वलक्षम् । सर्वायुश्चतुरशीति पूर्वलक्षी । पञ्चधनुःशतान्युञ्चत्वं च । भरतमुनेर्मोक्षमहिमा च प्रभोरिव शक्रादिदेवैर्महाप्रमोदेन कृतः ।। ऋषभदेवचरित्रमिति त्रयो-दशभवं चरितं भरतस्य च । विमलसूरिरभूरिकथाप्रथा-सुगममुद्धृतवान् स्मृतिहेतवे ।।८५।। . (द्रुतविलम्बितम्) ।।श्रीऋषभदेव-भरतयोश्चरितं समाप्तम्।। अक्षरगणनया ग्रन्थाग्रं श्लोक ८६१ ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy