________________
त्रिषष्टिशलाकापुरुषचरित्रम् नित्यपूजार्थं ग्रामादिकं प्राज्यं दानं कृत्वा गतश्चक्री स्वस्थानम्।।
भगवतः सर्वपरिवारे साधूनां चतुरशीतिसहस्राः । साध्वीनां लक्षत्रयम् । सार्द्धसप्तचत्वारिंशच्छती चतुर्दशपूर्विणाम् । नवसहस्री अवधिज्ञानिनाम् । विंशतीसहस्री केवलिनाम् । विंशतीसहस्री षट्शती च वैक्रियलब्धिमताम् । द्वादशसहस्री (सपञ्चाशत्) षट्शती च वादिनां मनःपर्ययज्ञानिनां च । द्वाविंशतिशती अनुत्तरोपपातिसाधूनाम्। सार्द्धं लक्षत्रयं श्रावकाणाम् । पञ्चलक्षी (सार्ध)चतुःसहस्री च श्राविकाणाम् ।।
दीक्षाकालात् पूर्वलक्षान्ते मोक्षकालं निजमाकलय्याऽष्टापदं प्रति प्रभुर्गतः। मुनीनां दशभिः सहस्रैः सह तस्य शिखरे स्थित्वा पादपोपगमनं प्रभुः प्रपेदे । गिरिपालकैः शीघ्रमागत्य ज्ञापितश्चक्री । सोऽपि शोकशङ्खपीडितस्त्वरितमागतः सान्तःपुरादिपरिवार: । दृष्टोऽनेन पर्यङ्कासनस्थः स्वामी । वन्दित्वा प्रत्यासन्न आसीनः। चलितासनाः सम्प्राप्ताः शक्रादयः । सन्ततव्याख्यानपरश्चतुर्दशेन तपसाऽवसर्पिण्यास्तृतीयारकस्य एकोननवतौ पक्षेष्ववशिष्टेषु माघमासकृष्णत्रयोदश्यामभीचौ पूर्वाह्ने निष्कर्मापर्यङ्कासनस्थ एव प्रभुर्लोकाग्रमध्यासितवान् । प्रतिपन्नानशनाः शेषमुनयोऽपि प्रापुः शिवम्।।
ततश्चक्रिणो हृदये जातः शोकसङ्घट्टो न शृणोति न पश्यति । तत शक्रण सपरिवारेण कृतो महानाक्रन्दः, प्रवृत्तश्च विलपितुम्
अहह ! मनुजलोकः शून्य एवैष सर्वः, प्रसरति हृदि चैतस्याऽधुना मोहनिद्रा । अवतु क इव विश्वं ग्रस्यमानं तमोभिर्जिनसवितरि जाते मौक्तिके मुक्तिशुक्तौ ।।२।।(मालिनी)
ततश्चक्रिणापि निर्भरं कृतं रुदितम् । विलीनो ग्रन्थिः । शक्रेण प्रबोध्य त्याजितः शोकम् । ततो देवैर्नन्दनवनादिभ्यो गोशीर्षचन्दनकाष्ठान्यानीय पूर्वस्यां दिशि प्रभुदेहयोग्या कृता वृत्तचिता । इक्ष्वाकुमुनीनां च योग्या त्र्यस्रचिता दक्षिणस्यां कृता । शेषमुनिनां योग्या च चतुरस्रचिता पश्चिमायां कृता । क्षीरोदजलैः स्नपयित्वा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org