SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४१ त्रिषष्टिशलाकापुरुषचरित्रम् इति भणता कोटिकोटिप्रमाणः संसारश्चोपार्जितस्तेनेति।। __ भगवानपि स्वविहारव्याजेन महीं पावयन् सौराष्ट्रमण्डलालङ्कारे श्रीशत्रुञ्जयगिरौ समवसृतः । सपरिवारश्च पुण्डरीकगणधरोऽपि तत्रायातः । देशनान्ते प्रभुणाभिहितम्। गणधरपुण्डरीक ! पुण्डरीक ! वयमन्यत्र विहरिष्यामः । मुनिकोटिपरिवृतस्तत्त्वमत्रैवाऽऽस्व । क्षेत्रानुभावादेवाऽत्र स्थितस्य भवतः सपरिवारस्यापि केवलज्ञानमचिरादेवोत्पत्स्यते, मोक्षोऽप्यासन्न एवेति । स्थितस्तत्र पुण्डरीक: कोटिपरिवारोऽप्यनशनेन। प्रभुरन्यत्र विजहार । मासान्ते चैत्रपूर्णिमायां कोटिपरिवारसहितस्याऽप्युत्पन्नं केवलज्ञानं पुण्डरीकगणधरस्य । क्रमेण क्रमेण सिद्धाः सर्वेऽपि । समायाताः सिद्धमहिमां कर्तुं दिवो देवाः । ततः प्रभृति च प्रथमं तीर्थं श्रीशत्रुञ्जयगिरिर्जातः ।। ज्ञातस्वरूपश्च सम्प्राप्तस्तत्र भरतेश्वरः । प्रभुसमवसरणस्थाने नानाविधमणिरत्नमयशिलास्थानं निर्मापितं जिनभवनम् । कारिता मध्ये श्रीयुगादिदेवप्रतिमा। पुण्डरीकप्रतिमा च तत्सन्निधौ कारिता । पूजार्चाप्रेक्षणकप्रमुखोत्साहसहिताष्टाह्निका कारिता । मिलिताश्च सुरकिन्नरविद्याधरादयः । महति महोत्सवे प्रवर्तमाने पठितं मङ्गलपाठकेन तेषां किं चरितं स्तुवन्तु कवयो-ऽप्यत्यद्भुतं नाकिनाम्। ये कालं गमयन्त्यनल्पयुगम-प्येकैककार्ये रताः । एकच्छेकतमस्त्वमेव नृपते !, पात्रं समस्तस्तुतेधर्मार्थस्मरमोक्षसाधनविधौ, यस्याऽन्तरायो न हि ।।८।। (शार्दूलविक्रीडितम्) अपि चत्वत्तोऽन्यः कतमः पुमान्निरुपम, प्रासादरत्नं जिनस्येदृक् कारयितुं क्षमः स्वशिखर-श्रेणीभिरभ्रंलिहम्। यत्केतुस्थपताकिकाऽञ्चलचल-द्वातप्रतानैः शनैर्नात्मानं परिवीजयद्विरमति, श्रीसङ्गमोष्मार्तितः।।८१।। (शार्दूलविक्रीडितम्) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy