SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३८ त्रिषष्टिशलाकापुरुषचरित्रम् एष द्वेषनिधिर्वधार्थममुच चक्रं च मे निर्घृणो; ज्येष्ठोऽप्यद्य कनिष्ठ एव यदि वा धिग्नौ क्रमोल्लङ्घिनौ ।।७६ ।। (शार्दूलविक्रीडितम्) - तैरेवोचितमालोचि, सोदरैर्लघुभिर्मम । अकृतातिक्रमैस्तातमार्गो यैः प्रथमं श्रितः । । ७७ ।। इत्यादिभावनया विरक्तस्तेनैव मुष्टिना मूर्द्धः केशानुच्चखान । सर्वं सावद्यं च निषिद्धम् । यास्यामि तातान्तिकमिति वलितोऽपि कषायोदयवशात् प्रत्यावृत्य मनसि विकल्पयितुं प्रवृत्तः । तत्र गतेन मया प्रथमोत्पन्नकेवला लघवो भ्रातरः कथं वन्दनीयाः । ततः केवली भूत्वाऽहमपि यास्यामीति निर्णीय स्थितस्तत्रैव कायोत्सर्गे ।। भरतोऽपि सपश्चात्तापः सविनयं पादयोर्निपत्य स्वापराधं क्षमयित्वा तत्पुत्रं च सोमयशसं विन्यस्य तद्राज्ये गतोऽयोध्यायाम् । बाहुबलिमुनेरपि परीषहान् सहमानस्य सम्पूर्णमब्दमेकम् । ततश्चिन्तितमादिदेवेन ।। गेहस्नेहमपाकरोति विभवं, सम्भावयन्त्यश्मवत्; पुत्रं शत्रुसमानमिच्छति जनो, देहं दहत्यग्निना । भोगत्यागविवेकधर्मविमुखः, कार्यायतो जायते; मानोत्तानमना न मानवजनो, मीमांसते किञ्चन ।।७८ ।। (शार्दूलविक्रीडितम्) Jain Educationa International I ततो ब्राह्मीसुन्दय मानविमोचनोपदेशदानाय तदन्तिकं प्रेषिते । ते अपि तत्र गत्वा महाकष्टेन लक्षयित्वा प्रदक्षिणीकृत्य वन्दित्वा पार्श्वयोः स्थित्वा महासत्त्व ! हस्तिस्कन्धाधिरूढानां नोत्पद्यते केवलमित्युक्त्वा च जग्मतुः । सोऽपि विमृशन् स्वयं विचारयति स्म । नूनं मान एव हस्ती नान्यस्ततो धिगहं व्रतज्येष्ठाशातनाकारकोऽहं गत्वा तान् वन्दित्वा स्वापराधं क्षमयिष्यामीति यावच्चरणमुत्पाटयति तावन्मोहक्षयादुत्पन्नं केवलज्ञानम् । सम्प्राप्ता देवाः । अनुभूतज्ञानमहिमा च गतः For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy