SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३६ त्रिषष्टिशलाकापुरुषचरित्रम् महोत्सवां सर्वर्द्धिसमुदयेन तां पुरस्कृत्य गतोऽष्टापदे चक्री । उत्तरद्वारेण सुन्दर्या समं प्रविष्टः समवसरणम् । प्रदक्षिणां दत्त्वा नत्त्वा चासीतः स्वस्थाने । सुन्दरी शिरसि बद्धाञ्जलिर्भूत्वा निष्क्रान्तं घनदुर्दिनादिव पृथग्भूतं विपत्तेरिव; व्यावृत्तं खलसङ्गतेरिव बहिर्भूतं यमास्यादिव । प्रोन्मनं नरकान्धकूपत इवो-तीर्णं भवाब्धेरिव; स्वं मन्ये मुनिवृन्दवन्द्यचरणा-म्भोज ! त्वदालोकनात् ।।७३।। (शार्दूलविक्रीडितम्) इति स्तुत्वा दीक्षां ययाचे । भगवानपि साधु साध्विति तां बहुमन्य सामायिकसूत्रोचारणपूर्वमनुशिष्टिं तस्या ददौ । साऽपि स्वं कृतार्थं मन्यमानानुज्येष्ठं साध्वीनां मध्ये गत्वा निषण्णा ।। चक्रयपि प्रभुं तां च वन्दित्वा स्वपुरीं ययौ । तत्रायुक्तैः पुरुषैर्द्रष्टुमागता ज्ञातयस्तस्य दर्शिताः, अनागताश्च स्मारिताः तत्र चक्रिणा प्रत्येकं लघुभ्रातॄणां प्रहिता दूताः । गत्वा प्रोक्तं तैर्यदि युस्माकं राज्यैः कार्यं तदागत्य भरतं सेवध्वमिति । ततस्ते सम्भूय ।। लोकः किं मदमेदुरः सुर इव, स्वं मन्यते निर्जरम्; कोपाटोपविसंस्थलं पुलकितः, किं नाम वैरायते । किं वाधून इवाऽशनैर्न भजते, तुष्टिं धनैर्मूनि यन्मृत्युर्वगति दुर्गतिश्च पुरतो, दूरेन्तरे निर्वृतिः ।।७४।। (शार्दूलविक्रीडितम्) इत्यालोच्य प्रत्यूचुः । ताते त्रैलोक्यस्वामिनि विजयिनि सति न तस्मिन्नस्माकं सेवाहेवाकः । प्रजायामिकत्वप्रायं तावदिदं राज्यं तदप्यन्यदीयसेवया भविष्यति तदलं तेन । वयं तातपादानां विज्ञप्य यद्युक्तं तत्करिष्यामः इत्युक्त्वा तान् विसृज्य 1 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy