SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३५ त्रिषष्टिशलाकापुरुषचरित्रम् पारणकम् । कृत मञ्चादिहट्टशोभासमुदयामयोध्या महाविभूत्या प्रविष्टः पुरीम्। जातः पौराणां परमः प्रमोदः ।। स्वप्रासादसङ्गतस्य च चक्रिणः सर्वराजकेन निजनिजदिनरीत्या प्रारब्धोऽभिषेको द्वादशभिर्वषैर्जातः सम्पूर्णश्चक्रवर्त्तित्वाभिषेकः । तावन्ति च वर्षाणि यावत्सर्वापि पुरी अशुल्का अकरा अदण्डा च कृता । ततः षोडशसहस्रसङ्ख्या यक्षाः सम्भाष्य विसृष्टाः । पार्थिवाश्चानुज्ञाता: स्वस्वस्थानगमनाय । चक्रं च्छत्रं खड्गो दण्डरत्नमेतान्येकेन्द्रियाण्यायुधशालायाम् । काकिणीरत्नं मणिरत्नं चर्मरत्नं नवनिधयश्च श्रीगृहे । सेनापतिर्गृहपतिः पुरोहितो वर्धकिरिति चत्वारि पञ्चेन्द्रियाणि पुर्यामेव स्वस्वगृहे नररत्नानि । गजाश्वरत्ने वैताढ्यगिरिमूलोत्पन्ने । विनमिपुत्री च स्त्रीरत्नमिति चतुर्दशरत्नानि।। द्वात्रिंशत्सहस्राः परिणीतराजपुत्रीणाम् । तावन्तश्चावरुद्धस्त्रीणामुभयं चतुःषष्ठिः सहस्रा, द्वात्रिंशत्सहस्राः बद्धमुकुटानां राज्ञां जनपदानां च । चतुरसीति लक्षाणि हयानां गजानां रथानां च । षण्णवतिकोट्यः पदातीनां ग्रामाणां च । द्वासप्ततिः सहस्राः पुरवराणाम् । सहस्रोनलक्षो द्रोणानाम् । अष्टचत्वारिंशत्सहस्राः पत्तनानाम्। चतुर्विंशतिः सहस्राः कर्बटानां मडम्बानां च । विंशतिः सहस्रा आकराणाम् । षोडशसहस्राः खेटानाम् । चतुर्दशसहस्राः सम्बाधानाम् । षट्पञ्चाशदन्तरोदकानाम्। एकोनपञ्चाशत् कुराज्यानाम् । त्रिषष्ट्यधिकत्रिशती सूदानाम् । अष्टादशश्रेणिप्रश्रेणि व्यवहारिणाम् । षष्ट्या वर्षसहस्रैदिग्विजयं कुर्वता भरतेन चक्रिविभूतिरियत्युपार्जिता।। अभिषेकोत्सवान्ते प्रवृत्तः स्मर्तुं स्वं लोकम्। दृष्ट्वा तपःकृशां सुन्दरी पप्रच्छायुक्तान् दौर्बल्यकारणम् । तैरप्युक्तम् । देवासौ व्रतं कर्तुमना नास्वादयति विकृतीः । केवलमाचाम्लतपसा निरन्तरेण दिनान्येतावन्त्यनैषीदेषेति । ततो भरतेन क्षमयित्वानुज्ञाता व्रताय । अत्रान्तरेऽष्टापदाद्रौ भगवदागमनं गिरिपालकैरागत्य चक्रिणे निवेदितम् । तेषां च चक्रिणा स्वर्णस्य सार्द्धद्वादशकोटयः पारितोषिके दत्ताः। सुन्दर्यपि दापिता दानं कारिता विशिष्टनेपथ्यादिपरिग्रहम्। कृतनिष्क्रमण Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy