SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् नवनवतिसुवर्णशलाका- सहस्रयुक्तं दृढदण्डं छत्ररत्नं धृतम् । मध्यभागे तेजोहेतोर्दण्डमूले स्थापितं मणिरत्नम् तच्च चर्मरत्नच्छत्ररत्नसम्पुटं तरत्सप्ताहोरात्री स्थितम् । अष्टमदिने चुकोप चक्री । ततो मेघमुखास्ते नागकुमाराः प्रवोधिताः दण्डं च भरतस्य दापिताः। चक्रिणापि सत्कृत्य मुक्तास्ते किराताः ।। सेनानीः सिन्धोरुत्तरं निष्कुटं साधयित्वा प्राग्वदायातः । चक्रं च पूर्वमार्गेण लघुहिमवद्रेिर्दक्षिणनितम्बे चक्रिणा सह प्राप्तम् । अष्टमतपोऽन्ते चक्री रथमारुह्य रथतुण्डेन त्रिस्तं पर्वतमताडयत् । धनुरारोप्य शरं च चिक्षेप । स च शरो द्वासप्ततिं योजनान्याकाशे गत्वा हिमवत्कुमारस्याग्रे पतितः । शरनामाक्षरालोकनात् सोऽपि शान्तः सन् पारिजातपुष्पमालां गोशीर्षचन्दनं सर्वाश्चौषधीस्तीर्थोदकं कटकान् बाहुरक्षान् देवदूष्याणि च प्राभृते कृतवान् शरं चार्पयन् । चक्रयप्याष्टाह्निकापूर्वं तं विसृज्य, ऋषभकूटाद्रौ गत्वा तमपि रथतुण्डेन त्रिरताडयत्, काकिणीरत्नेन च स्वाभिधानं पूर्वकटके लिलेख ।। ततश्चक्रानुगो गङ्गासिन्धोरन्तरालाध्वना वैताढ्योत्तरनितम्बे गत्वा समावासितः नमिविनम्योर्दण्डग्रहणाय शरं प्रहितवान् । तौ च तद्दर्शनात् कुपितौ । ताभ्यां समेत्य भरतेन सह द्वादशवर्षाणि यावद् युद्धं कृतम् । पश्चाज्जितौ तौ। विनमिना स्थिरनखकेशयौवना सर्वरोगशमनी यथाकामीनशीतोष्णस्पर्शा सर्वलक्षणसम्पूर्णा सर्वद्धिसहिता स्वदुहिता सुभद्रेति नाम्ना स्त्रीरत्नमिति भरतस्य प्रदत्ता । रत्नानि च भूयांसि नमिनापि प्रदत्तानि । ततो नमिविनमी भरतमनुज्ञाप्य भवविरक्तौ श्रीऋषभदेवपादान्ते प्रवव्रजतुः ।। ततश्चक्रानुसारी जाह्नवीसदनस्यासन्नभूभागे गत्वा ददावावासान् । सुषेणश्च सिन्धुवद्गङ्गामप्युत्तीर्य साधयित्वा गाङ्गमुत्तरनिष्कुटं सम्प्राप्तः । चक्रिणा चाष्टमभक्तेन स्मृता गङ्गादेवी । साप्यागत्य रत्नसिंहासनद्वयमष्टोत्तररत्नकुंभसहस्रं च ददौ । तत्र च तत्पार्श्वे वर्षसहस्रं स्थितो नाना सुखेन चक्री ।। चिन्तायाः समनन्तरं कुलकृतां, त्वत्पूर्वजानां सुराः, सर्वेषां ददति स्म कामिकफलं, कल्पद्रुमाऽन्तर्हिताः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy