________________
त्रिषष्टिशलाकापुरुषचरित्रम् पुण्यैवैभवसम्भवो भवभृता-मेवं विदन्नप्यसौ, लोकः स्तोकमतिर्न तत्र निरतः, किं तु प्रमादी मदी। नाऽयं वायुमिवाऽऽयुरस्थिरमिदं, जानाति नाऽवेक्षते, मृत्यु पार्श्वविवर्तिनं न च जरा-मागामिनीं मन्यते ।।६८।।
(शार्दूलविक्रीडितम्) इत्यादि देशनया भरतस्य ऋषभसेनाद्या एकोनपञ्चशतानि पुत्राः सप्तशतानि च पौत्रा ब्राह्मी अन्येऽपि नरा नार्यश्च प्रतिबुद्धाः प्रवव्रजुर्जगृहुश्च सम्यक्त्वादिकं, सुन्दरी च प्रव्रजन्ती भरतेन निषिद्धा। ऋषभसेनाद्याः साधवो, ब्राह्मयाद्या साध्व्यो, भरताद्याः श्रावकाः, सुन्दर्याद्याः श्राविका, इति भगवता स्थापितश्चतुर्विधः श्रीसङ्घः । उपार्जितगणभृन्नामकर्मणामृषभसेनादीनां चतुरशीतेः साधूनामुत्पादो विगमो ध्रौव्यमिति पदत्रयीं प्रभुरुद्दिदेश। तैरपि सचतुर्दशपूर्वाण्यैकादशाङ्गानि कृतानि। स्वयं शक्रे दिव्यवासस्थालहस्ते प्रभुणा स्वयमुत्थाय सूत्रेणाऽर्थेन तदुभयेन द्रव्यगुणपर्ययनयैरनुयोगाऽनुज्ञा गणानुयोगाऽनुज्ञा च प्रदत्ता। शक्रादिभिर्दुन्दुभिध्वनिपूर्वं कृतो वासनिक्षेपः।।
सम्पूर्णायां पौरुष्यां भरतेश्वरकारितोऽखण्डनिस्तुषकलमतण्डुलचतुष्प्रस्थीप्रमाणः स्थालस्थितो वाह्यमानवादित्रधवलमङ्गलगीतस्फीतः पुरुषैरानीतो बलिः । प्रवेशितः प्राग्द्वारेण समवसरणप्रदक्षिणांदापयित्वा विक्षिप्तः प्रभोरग्रतश्चतसृष्वपि दिक्षु। अपततोऽपि तस्यार्द्धममरैरम्बरे गृहीतम् । भूगतस्याऽर्द्धं भूस्वामिना भरतेन स्वीकृतम्। शेषं समस्तलोकेन गृहीतम्। तत्प्रभावेण पूर्वोत्पन्नारुजः शाम्यन्ति। नवाश्च षण्मासी यावत् नाविर्भवन्तीति। प्रभुश्चोत्तरद्वारेण निर्गत्य रत्नस्वर्णवप्रमध्यस्थितदेवच्छन्दके विश्रामार्थमागतः । ऋषभसेनगणधरेण प्रभुपादपीठमध्यास्य कृता देशना। प्रभोश्च तीर्थे गोमुखयक्षः, सचाऽक्षमालाभृ दक्षिणदोर्द्वयः, मातुलिङ्गिपाशिवामबाहुयुगः, स्वर्णवर्णो गजस्थश्च। अप्रतिचक्रा च शासनदेवी, वरदबाणिचक्रिपाशिदक्षिणचतुर्भुजा, धनुष्मद्वज्रिचक्राऽङ्कुशिवामचतुर्बाहुः। एवं सपरिवारश्चतुस्त्रिंशदतिशयसमन्वितः स्थाने
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org