________________
त्रिषष्टिशलाकापुरुषचरित्रम् आतङ्कः कलुषीकृतः स्तबकितो-ऽन्तर्दाहकीलाशतैः, प्रव्रज्य व्रजिते सुते मम दिनः, स्याद् वत्स ! संवत्सरः ।।६६।।
(शार्दूलक्रीडितम्) एवं वदन्त्यां स्वामिन्यां यमकशमको पुरुषौ समेत्य चक्रिणं विज्ञपयामासतुः । एकेन प्रभोः पुरिमतलागमनकेवलोत्पत्तिसमवसरणरचनादेवाद्यागमनादिकं निवेदितम् द्वितीयेनास्त्रशालायां चक्ररत्नोत्पत्तिनिवेदिता। पारितोषिकं कृत्वा तौ विसृज्य च मरुदेवामुवाच। देवि ! दिष्ट्या वर्धसे, विलोकय, स्वयमधुनाधरीकृतचक्रिशक्रप्रभावं स्वसूनोवैभवम्। वाचामगोचरो मनसाऽप्यचिन्तनीया कापि लोकोत्तरैवाऽऽविर्भूता श्रीस्त्वत्सुतस्येति। ततो राजवाह्यं गजं तामारोह्य सपरिवारः सर्वर्या प्रचलितो नमस्कर्तुं भरतो भगवन्तम्। दूरादप्यालोक्य रत्नध्वजम्, पितामहीमवादीत्। देवि त्वत्सुतस्य पुरतोऽयं श्रूयते सुराणां जयजयारवः। अयं च दुन्दुभेर्ध्वनिः। स एष विमानानां किङ्किणीक्वाणः । इयं गन्धर्वाणां गीतिः। इत्यादि शृण्वन्त्याः स्वामिन्याः प्रमोदाश्रुजलैविलीना लोचनयोनीलीका । दृष्टा स्पष्टा मरुदेव्या तीर्थकृल्लक्ष्मीः पुत्रस्य। पश्यन्ती च प्राप्ता तन्मयतां, समारूढा च भावविशेषेण क्षपकश्रेणिमेककालं क्षीणाष्टकर्मनिगडान्तकृत्केवलिनी भूत्वा प्राप्ता सिद्धिपदम्। अस्यां चावसर्पिण्यां प्रथमोऽयं सिद्धः । तद्वपुश्च सत्कृत्य देवैः क्षिप्तं क्षीरार्णवे। ततः प्रभृति च मृतकपूजा प्रवृत्ता। शोकहर्षसमाकुलश्च चक्री सन्त्यज्य राज्यचिह्नानि, प्रविश्योत्तरद्वारेण समवसरणम्, कृत्वा त्रिःप्रदक्षिणाम्, स्तुत्वा नत्वा च प्रभुम्, पृष्ठतः शक्रस्य निषण्णः। पञ्चत्रिंशदऽतिशयवत्या सर्वभाषानुगामिन्या गिरा चकार प्रभुर्देशना।।
नाप्तः पुरातनभवे गुरुकर्मभिर्यः, प्राप्तव्य एष्यति भवे न जनैरवश्यम्। प्राप्तः सकर्मविवरादधुनैव तस्मात्,
सर्वात्मना कथमसौ क्रियते न धर्मः।।६७।। (वसन्ततिलका) अपि च
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org