SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् २७ अन्तस्त्रिकोशश्चैत्यगु-रधः सिंहासनानि च । देवच्छन्दो द्वितीयस्य, वप्रस्याऽभ्यन्तरे पुनः ।।६२।। आसीने प्राङ्मुखे स्वामि-न्यन्यरूपत्रयादिकम् । कुर्वन्ति व्यन्तराः सर्वं, बहिश्चक्रं च पद्मगम् ।।३।। मुनिकल्पस्त्रीसाध्व्यो, भुवनवनज्योतिरङ्गनास्तासाम्। देवा वैमानिकसुर-नरनार्योऽग्नयादिविदिशि सभा।।६४।। (आर्या) वप्रस्याऽन्तद्वितीयस्य, तिर्यञ्चोऽन्योन्यवैरिणः। यानानि तु तृतीयस्य, गन्तागन्ता च तद्वहिः।।६५।। इयं सर्वजिनसामान्या समवसरणस्थितिः।। सुरैः सञ्चार्यमाणेषु नवसु स्वर्णकमलेष्वंहिन्यासं कुर्वन् चतुर्विधदेवनिकायकोटीभिरावृतो भगवानपि पूर्वद्वारेण प्रविश्य समवसरणे चैत्यवृक्षस्य प्रदक्षिणां कृत्वा तीर्थं च नत्वा प्राङ्मुखः सिंहासने समुपविवेश। कृतानि व्यन्तरैर्भगवदनुभावात् प्रभोरभेदकारीणि त्रीणि प्रतिरूपाणि तिसृस्वपि दिक्षु। आविष्कृतान्यष्टमहाप्रातिहार्याण्यशोकादीनि। पूर्वयाम्यपश्चिमोत्तरगोपुरद्वारेषु चतुर्ध्वपि वैमानिकव्यन्तरज्योतिषिकभुवनपतिदेवा यथासङ्घयं जाता द्वारपालाः।। अथ सौधर्मेन्द्रः समेत्य प्रदक्षिणां दत्त्वा शक्रस्तवेन स्तुत्वा नत्वा च प्रभु नरनारीदेवानामग्रतः समुपविष्टः।। इतोऽपि विनीतायां विनीत इति प्रातरायातः सुतविरहा श्रान्तरोदनोद्भूतनोलिकालुप्तलोचनां पितामहीं मरुदेवी नमस्कर्तुं भरतश्चक्री। देवि ! ज्येष्ठपौत्रो नमतीत्युक्त्वा पुरस्तादासीनः। मरुदेव्यपि साश्रमाशिषं प्रयुज्य प्रोवाच।। निर्वेदेन तरङ्गितः कवचितो, दुःखैरसह्योदयैरुद्वेगेन विपञ्चितः परिचितो, मूर्छागमैर्दुर्गमैः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy