________________
त्रिषष्टिशलाकापुरुषचरित्रम् पपात बहिर्बिन्दुरपि । संवत्सरान्ते जातं प्रभोः पारणम् । गन्धोदकवृष्टिः पुष्पोत्करश्चेलोत्क्षेपो दुन्दुभिध्वनिर्वसुधारेति पञ्चदिव्यान्याविर्भूतानि । मिलिताश्च दिवि देवादयो भुवि च मानवाः ।।
__ वैशाखशुक्लतृतीयायां दानं तदक्षयं जातमिति । ततः प्रभृत्यक्षयतृतीयायाः पर्वप्रवृत्तिः । दानधर्मोऽपि श्रेयांसतः प्रवृत्तः । लोकैः पृष्टः श्रेयांसः त्वया कथं दानविधिति इति । तेनोक्तम् । भगवदर्शनाद् ममोत्पन्नं जातिस्मरणम् । स्मृतं च मया प्राग्भवदृष्टं कृतं च दानव्रतादिकम् । तथा स्वप्नत्रयस्य चायमर्थः । यः श्यामो मेरुः स तपःकृशप्रभुः, क्षालनं तु पारणकम् ।। १ सूर्यस्थानी प्रभुर्गासहस्रं तु केवलम्, तच्च मया कारिते पारणके प्रभोरतः परं भविष्यति ।।२ वीरः पुमांश्च स्वामी, वैरिणः परीषहाः, मत्साहाय्येन पारणकलक्षणेन प्रभुस्तान् पराजेष्यते ।।३
प्रभुरपि कृतपारणकोऽन्यत्र विजहार । प्रभुपादमुद्रायां च श्रेयसेनाऽऽदिकृन्मण्डलमिति नाम्ना स्तूपं कारितम् । भगवांश्च बहलीदेशे विहरंस्तक्षशिलायां रात्रौ बहिः प्रतिमया स्थितः । ज्ञाताऽऽगमनेन बाहुबलिना पुर्यां मञ्चादिहट्टशोभा कारिता । किल प्रभुर्मध्यमेष्यतीति प्रातः सर्वसंवाहेन निःसृतोऽभिमुखं बाहुबली । प्रभुश्चान्यत्र गतः । बाहुबली च खेदं कृत्वा पादमुद्रां वन्दित्वा तत्र च स्तूपं कारयित्वा स्वस्थानं गतः । भगवानपि मौनी सन् नानादेशेषु विहरन् वर्षसहस्रान्तेऽयोध्यायाः पुरिमतालोद्याने सम्प्राप्तः । कृताष्टमतपसश्चाऽशोकतरुतले प्रतिमास्थस्य फाल्गुनकृष्णैकादश्यामुत्तराषाढानक्षत्रे प्रातः प्रभोः केवलज्ञानमुत्पन्नम्।।
पूर्ववदिन्द्राः सर्वेऽप्यागताः । प्रारब्धा समवसरणरचना । मार्जिता वायुकुमारैरेकयोजनप्रमाणा भूमिः । सिक्तामेघकुमारैर्गन्धाम्बुभिः । कृतं व्यन्तरैः स्वर्णरत्नमाणिक्यशिलाबद्धं कुट्टिमम्, प्रकीर्णानि तैरेवाऽधोमुखवृन्तपञ्चवर्णानि पुष्पाणि चतसृषु दिक्षु कृतानि सध्वजानि रत्नादि तोरणानि । तदधस्ताञ्च कृताः स्वस्तिका अष्टमङ्गल्यश्च ।।
कल्पज्योतिर्भुवनत्रि-दशामणिरत्नकनककपिशीर्षाम्। रत्नकलधौतरौप्यैः, सृजन्ति वप्रत्रयीं मध्यात् ।।६१।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org