SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् एकैकवस्तुघटनाप्रभुभृत्ययोर्यत्, प्राच्यं द्वयो ऋणविशोधनमेव तत्तु ।।५७ ।। (वसंततिलका) तदुदासीने निष्किञ्चने च प्रभौ विडम्वनैव भवतो: सेवेति । उक्तं ताभ्यां कुलक्रमायातः स्वाम्यावयोः सेव्य एव सर्वावस्थास्वपि । पुनर्धरणेन्द्रः प्रोवाच ।। २४ अजानानी भिक्षा क्रममगणितात्मक्लमभरौ, ययोर्याञ्चादैन्यं, गृहिषु कृतवन्तौ न पितरौ । युवां नूनं तादृग्- जनकतनयौ युक्तमधुना, गतौ नान्याभ्यर्णं, यतिमपि विहाय प्रभुममुम् ।। ५८ ।। (शिखरिणी) इत्यनुमन्य तुष्टेन धरणेन्द्रेण पाठसिद्धानां विद्यानामष्टचत्वारिंशत्सहस्रीं दत्त्वा नीता वैताढ्ये संस्थाप्य दक्षिणोत्तर श्रेण्योः पञ्चाशतं षष्ठिं च नगराणि कृतौ विद्याधरेश्वरौ यः कश्चिज्जिनचैत्यसाधूनामवज्ञां करिष्यति, बलाच्च परस्त्रियं कामयिष्यते, आत्मानं स्त्रियं वा हनिष्यति, तस्य विद्या न स्फुरिष्यन्तीति मर्यादाक्षराण्युत्कीर्य गतः स्वस्थानम्। नमिविनमिभ्यां च विमानमारुह्यागत्य पित्रोः समीपं दर्शितं स्वं वैभवम्, विनीतायां च गत्वा दर्शिता भरतस्य स्वलक्ष्मीः । ज्ञातिलोकश्च सर्वोऽपि विमानमारोप्य नीतस्तत्र । प्रतिपुरं कारितानि जिनचैत्यानि । प्रतिदिनं श्रीऋभदेवपादान् शाश्वततीर्थानि च वन्दित्वा तौ भोजनं कुरुतः । एवं गमयतस्तौ कालम् ।। | प्रभुणा चिन्तितं यद्यहमाहारं न ग्रहीष्यामि तदा कच्छमहाकच्छवद् भाविनोऽपि मुनयो व्रतं प्रतिभङ्गं ग्रहीष्यन्ति । ततः सम्प्राप्तः प्रभुः कुरुदेशे । गजपुरे च बाहुबलिपुत्रः सोमप्रभो राजा । तस्य पुत्रः श्रेयांसस्तेन स्वप्ने सौवर्णो मेरुः श्यामः सन्नमृतकलशेन प्रक्षाल्योज्वलीकृत इति दृष्टम् । नगर श्रेष्ठिना स्वप्ने सूर्यबिम्बाद् रश्मिसहस्रं चलितम् । श्रेयांसेन पुनः संयोजितम् । ततः सूर्यो भास्वरो जात इति Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy