________________
त्रिषष्टिशलाकापुरुषचरित्रम् वस्त्रमाल्यादीन्युन्मुच्य, बभार जम्भारिन्यस्तं देवदूष्यमंशेन । कृतषष्ठ-तपाश्चैत्रबहुलाऽष्टम्यामुत्तराषाढानक्षत्रे दिनपश्चिमभागे चतसृभिर्मुष्टिभिरुच्चखान मूर्द्धजान्। शक्रप्रार्थनया मुक्ताः पञ्चममुष्टिकेशाः । ते च केशाः स्ववस्त्राञ्चलेन प्रतीष्य क्षिप्ताः क्षीराब्धौ, शक्रेण निवारितश्च देवैस्तुमुलः । स्वामी च कृतसिद्धनमस्कारः सुरनरसमक्षं सर्वसावा योगं प्रत्याख्यामीति चारित्रं प्रतिपन्नवान् । तदानीमेवोत्पन्नं मनःपर्ययज्ञानम्। भरताद्यैर्वार्यमाणा अपि कच्छमहाकच्छादयश्चत्वारो नृपसहस्राः प्रपन्नाः श्रामण्यम्।
गताः शक्रादयः स्वं स्वं स्थानम् भरतोऽपि सपौरः प्रभुपादान् प्रणम्य सम्प्राप्तो राजधानीम्, प्रभुरप्यवलम्बितमौनोऽन्यत्र विजहार। पारणकार्थी च यस्य यस्य गृहे प्रभुः प्रयाति, स स भूमण्डलमिलन्मौलि: प्रणम्य योजिताञ्जलिरेवमेव विज्ञप्तिकां करोति।।
कन्या: शीलेन धन्याः, प्रभुचरणयुगा-ऽभ्यस्तपूजास्तनूजा; लक्ष्मीरक्षीणकोशा, गृहमनघगृह, बान्धवाः सोद्धवाश्च । एषोऽहं स्वामिपादा-ऽम्बुरुहमधुकरः, किङ्करत्वायसजः, श्लाघ्यं यत्किञ्चिदेषु, स्फुरति मनसि व-स्तेन देयो नियोगः ।।५६।।(स्रग्धरा)
ततः प्रभुरनाकर्णितमिव कृत्वा व्रजति । एवं संवत्सरं निराहारं पर्यटितः। कच्छमहाकच्छादयस्तु क्षुधाबाधिता गङ्गातीरे गत्वा सर्वेऽपि स्थिताः । कच्छमहाकच्छपुत्रौ च नमिविनमी स्वाम्यादेशाद् दूरङ्गतपूर्विणौ व्यावृत्तौ च गङ्गातीराध्वना समागच्छन्तौ स्वपितरौ ददृशतुः । पितृभ्यां च तयोः स्वामिनः प्रव्रज्याग्रहणं स्वस्वरूपं च सर्वमाख्यातम् । ततस्तौ स्वाम्येवावयोर्गतिरिति पित्रोराख्याय प्राप्तौ प्रभुसमीपम्। त्रिकालमपि प्रभोरग्रे पुष्पोपहारं कृत्वा भगवन् ! राज्यप्रदो भवेति त्रिकालं विज्ञपयतः। पार्श्वयोश्चाकृष्टकृपाणपाणी ऊर्ध्व स्थितावेव सेवां कुरुतः । एवं कुर्वाणौ तावेकदा धरणेन्द्रेण वन्दितुमागतेन दृष्ट्वा भाषितौ ।।
प्रीतिः प्रभोर्गुणगणोऽनुचरस्य सम्यग्, योगस्तयोः प्रणयिषु श्रियमातनोति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org