SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् २१ नलगर्भशरावसम्पुटमुशलादिकं मङ्गलकृत्यम्। देह्यघं देह्यर्घमिति चोञ्चारिता धवलाः । अर्घदायिन्या क्षिप्त्वा कण्ठे कौसुम्भं वासः समाकृष्य नीतः स्वामी मातृगृहम् । बद्धं हस्ते समदनफलं कङ्कणसूत्रम् । शम्यश्वत्थादिनिर्मितः समर्पितो हस्तलेपः कन्ययोः पाणिसम्पुटे । प्रभुणा च गृहीतौ तयोः पाणी । प्रक्षिप्ता हस्तसम्पुटमध्ये शक्रेण स्वोमिका । कृतस्तारामेलकः । प्रभुसमीपे देवाः, कन्यासमीपे देव्यश्च प्रवृत्ताः कौतुकधवलान् गातुम् । वध्वौ द्वावप्यञ्चलौ कट्यामारोप्य, वधूवरं नीतं वेदिगृहे । प्रत्यक्षीकृतः कुण्डे देवैरग्निः । परितश्चाग्निं दत्ता प्रदक्षिणा यावत् पूर्णाऽष्टमङ्गली । कृतः पाण्योरञ्चलयोश्च मोक्षः । कृतमिन्द्रेण देवीभिश्च नृत्तम् । इत्यादि कृत्वा गतः शक्रः स्वं स्थानम् । इयं सर्वत्र विवाहस्थितिः ।। विवाहानन्तरं ताभ्यां समं प्रभो गाननासक्तमनुभवतः किञ्चिदूनेषु पूर्वलक्षेषु षट्सु गतेषु सर्वार्थसिद्धतश्च्युत्वा बाहुपीठजीवौ सुमङ्गलादेव्याः कुक्षौ युग्मित्वेनाऽवतीर्णी, तयोश्चैकश्चतुर्दशस्वप्नसूचितचक्रवर्तिजन्मा पुमानन्यः स्त्री । सुबाहुमहापीठजीवौ सुनन्दायाः कुक्षौ युग्मित्वेनोत्पन्नौ । तयोरप्येकः पुरुषोऽन्यः स्त्री । समये सुमङ्गला सुषुवे भरतब्राह्मयौ । सुनन्दा तु बाहुबलिसुन्दयौं पुनरपि सुमङ्गला पुत्राणां युग्मान्येकोनपञ्चाशतं प्रसूता ।। तदानीं च कालप्रभावात् कल्पद्रुमाः क्रमेण क्रमेण हीनफलाः जाताः । कषायाश्च वृद्धिं गताः । प्रजाश्च नीत्युल्लङ्घिन्योऽभूवन् । ज्ञानत्रयधरेण च प्रभुणा प्रजानां राजनीतिः प्ररूपिता । ताभिर्याचितो राजानं श्रीनाभिस्तेनाप्यर्पितः श्रीऋषभो राजा तदभिषेकाय गतो लोको जलमानेतुम् । अत्रान्तरे शक्रेणागत्य सर्वाङ्गं विलिप्य विभूषितः स्वामी रत्नालङ्कारैः । लोकेन चागतेन विचार्य विचार्य प्रक्षिप्त जलं प्रभुचरणयोस्ततो रञ्जितेन शक्रेण प्रोक्तं विनीता इमे ततो नगर्यपि विनीताऽस्त्विति द्वादशयोजनदैर्ध्या नवयोजनविस्तारा प्राज्यवस्त्ररत्नधनधान्यनिरन्तरा निर्मापिता पुरीन्द्रेण। विनीतेती च कृतं नाम । जन्मतो विंशतौ पूर्वलक्षेषु गतेषु प्रभुः पित्रा शक्रेण च राज्ये न्यस्तः । जन्मान्तराभ्यस्तराज्यनीतिना च प्रभुणाऽमात्यादीनां स्थापना कृता। उग्रा आरक्षाः, भोगा मन्त्रिप्रभृतयः, राजन्या समवयसः, शेषाश्च क्षत्रियाः पत्तिप्रायाः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy