________________
२०
त्रिषष्टिशलाकापुरुषचरित्रम् भद्रासनानि च द्वात्रिंशदन्यान्यप्युत्कृष्टानि वस्तूनि नाभिनृपगृहे निक्षिपति उद्घोषयन्ति चाभियोगिकदेवाः । कश्चिद्यद्यर्हतोऽर्हज्जनन्याश्चाशुभं चिन्तयिष्यति तस्याऽर्जकमञ्जरीव शिरः सप्तधा भेत्स्यत इति । अर्हन्तश्चाऽस्तन्यपायिनस्ततः क्षुदुदये प्रभुः शक्रसङ्क्रमितामृतमात्माङ्गुष्ठमेव रसवर्षिणं मुखे निक्षिपति । धात्रीपञ्चकं चादिश्य शक्रो नन्दीश्वरे गत्वा यात्रां करोति । सर्वेऽपि सुरेन्द्राः ससुराः सन्तो यात्रां तत्र कृत्वा स्वं स्वं स्थानं गच्छन्ति । अयं च जन्मोत्सवः समस्तेष्वपि चरितेषु ज्ञेयः।।
___ इदमिन्द्रागमनादिकं प्रातर्मरुदेवास्वामिनी नाभेः शशंस। ततः प्रमोदमयं पुत्रजन्मोत्सवं करोति नाभिनृपः । चतुर्दशस्वप्नानां मध्ये मरुदेव्या प्रथमं वृषभो दृष्ट: प्रभोश्चोर्वोः वृषभो लाञ्छनमभूत् । ततः प्रभो ऋषभ इति नाम कृतं पितृभ्याम् । युग्मजातायाश्च स्त्रियः सुमङ्गलेति प्रदत्तं नाम । प्रभोश्च किञ्चिदूने वर्षे सति वंशस्थापनार्थमिक्षुपाणिः शक्रः सम्प्राप्तः । स्वामिना च तदनुग्रहाय प्रसारितः पाणिस्ततः शक्रेणेक्ष्वाकुरिति प्रभुवंशस्य नाम स्थापितम् । देवाश्च प्रभुयोग्यानि प्रत्यहमुत्तरकुरुतः फलानि क्षीरोदाञ्च जलान्यानयन्ति ।।
दशवर्षदेशीये च प्रभावकालतालफलपातहतस्य विपन्नमातापितृकस्य मिथुनकस्य स्त्री सुनन्देति नाम्ना लोकैः प्रभुयोग्या सङ्ग्रहीता । अत्रान्तरे शक्रेणागत्य प्रभुं प्रति प्रारब्धो विवाहविधिः ।।
निर्वाणं निकटं सुदुस्तरदशा-प्रान्तोऽपि लब्धस्तमःस्तोमोऽशामि समीहते तदपि च, स्नेहं मनो दीपवत्। पाल्यं तीर्थकरत्वमन्तिमभवो, ज्ञानानि च त्रीणि मे, वेद्यं कर्म मया तथापि यदहं, कार्येऽद्य पाणिग्रहम्।।५४॥
(शार्दूलविक्रीडितम्) प्रभुणाप्येवं विमृश्यानुज्ञातं सर्वम् । ततः प्रथममेव स्वामी सुमङ्गलासुनन्दाभ्यां सह दिव्यधात्रीभिः स्रपितो विलिप्तो भूषितश्च नीतो मण्डपद्वारम् । कृतं दधिदूर्वालवणा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org