SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् प्रतीतं सर्वेषां प्रकटमिदमेव त्रिजगतो, यदऽम्भः संरम्भाद् भवति परितापप्रशमनम् । अचिन्त्यं माहात्म्यं किमपि हि जिनेन्द्रोर्यदुदयं, प्रतापः प्राप्नोति, प्रसभमभिषेकव्यतिकरात् ।। ५२ ।। • Jain Educationa International (शिखरिणी) केचिदेवं स्तुवन्ति । केऽपि वादयन्त्यातोद्यानि । इत्याद्यनेककृत्यपराः सुराः प्रमोदं मूर्त्तमिवावतारयन्ति । ततो गन्धकाषाय्या प्रभोर्वपुरुन्मा गोशीर्षचन्दनद्रवेण विलिप्य पारिजातादिपुष्पैरुन्माल्याऽच्युतारणेन्द्रः प्रणम्य निवर्तते । एवं द्वाषष्ठिरन्येऽपि वासवाः स्नानाऽङ्गरागपूजादिकं ज्येष्ठानुक्रमात् कुर्वन्ति ।। १९ तत ईशानेन्द्रः पञ्चधात्मानं विकृत्य सौधर्मेन्द्रस्थाने प्रभुमुत्सङ्गे निवेश्याSafaष्ठते । सौधर्मेन्द्रस्तु प्रभोश्चतुर्दिशं चत्वारि स्फाटिकवृषभरूपाणि विकरोति, तेषामष्टभ्यः शृङ्गेभ्यः समुत्थिताभिर्धाराभिरन्ते मिलित्वा प्रभुशिरसि पतन्तीभिश्चिरं स्नात्रं करोति । ततो रत्नमये पट्टे प्रभुं निवेश्य गन्धकाषाय्या प्रमार्जयति ।। सौवर्णराजतयवैरथ तन्दुलैर्वा, ये मङ्गलाष्टकमुदारमुदारभन्ते । अर्हत्पुरः सुरनराधिपतिश्रियं ते, भुक्त्वाष्टकर्मविलयं निलयं श्रयन्ति ।। ५३ ।। ( वसन्ततिलका) इत्यनुमोदमानोऽखण्डरौप्यतण्डुलैरष्टमङ्गलीं लिखति । ततो विलिप्य विचित्रवस्त्राणि परिधाप्य सर्वाङ्गं रत्नाभरणैर्विभूषयति । पूजयित्वाऽऽरात्रिकं त्रिरुत्तारयति । शक्रस्तवेन स्तुत्वा प्राग्वत्पञ्चधात्मानं विकृत्य प्रभुं मातुरन्तिकं प्रापयति संहरति च निद्राम् । प्रभोश्वोच्छीर्षके दुकूलयुगं रत्नकुण्डलयुगं विमुञ्चति । विचित्ररत्नहारार्द्धहाराऽऽढ्यं दृष्टिविनोदाय विताने लम्बमानं श्रीदामगन्दुकं चविन्यस्यति । ततः शक्रादेशाद् धनदो हिरण्य - रत्न - स्वर्णानां द्वात्रिंशतं कोटी: प्रत्येकं नन्दासनानि For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy