SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १८ त्रिषष्टिशलाकापुरुषचरित्रम् विमानं संस्थाप्य ततः समुत्तीर्य प्रभुसमीपमभ्येति । प्रणमति चालोकमात्रे स्थितः प्रभुम् । ततो भगवन्तं समातरं प्रदक्षिणयति । मूर्ध्यञ्जलिं बद्ध्वा जिनजननीं स्तौति ।। अज्ञानहालाहलजातमूर्च्छ, जगज्जनं बोधयितुं समस्तम् । त्वं जाङ्गली देवि ! यदीयपुत्रमन्त्रो महामोहतमोऽपाहोऽयम् ।।४९ ।। (उपजातिः) इति स्तुत्वा तस्याः समीपे जिनप्रतिच्छन्दं मुक्त्वावस्वापनिकां च तस्याः प्रदाय पञ्चधात्मानं विकरोति । चन्दनाक्तपाणिरेकेन रूपेण प्रभुमुद्वहति, द्वितीयेनातपत्रं धरति, द्वाभ्यां चामरे गृह्णाति, एकेन पुरः पविमुच्छालयन् द्वात्रिंशल्लक्षविमानवासिदेवीभिः समं नृत्यन् गायन् गच्छति मेरुशिखरं, पाण्डकवनेऽतिपाण्डुकम्बलायां शिलायां सिंहासने निजाङ्कस्थापितजिनः पूर्वाभिमुखः सुखं निषीदति ।। ततः शेषा अपि कल्पेन्द्राः सूर्येन्दु असुरादिनिकायनायकचमरबल्यादिभुवनपतीन्द्राः पिशाचादिनिकायनायककालमहाकालादयोऽप्रज्ञप्तिप्रमुखनिकायनायकसन्निहितसामानिकादयश्च व्यन्तरेन्द्राः स्वस्वपरिवारेण सर्वेऽप्यायान्ति ।। कल्पेशा दश सूर्येन्दू, विंशति भुवनाधिपाः । द्वात्रिंशद् व्यन्तरेन्द्राश्च चतुःषष्टिः पुरन्दराः ।। ५० ।। सौवर्णानां रौप्याणां रत्नानां सुवर्णरूप्यमयानां सुवर्णरत्नमयानां सौवर्णरौप्यरत्नमयानां रौप्यरत्नमयानां शुद्धमृण्मयानां योजनमुखानां समस्ततीर्थोदकपरिपूर्णानां कुम्भानां प्रत्येकं प्रत्येकमष्टोत्तरसहस्रेण प्रथममच्युतारणाधिपतिः कुसुमाञ्जलिक्षेपपूर्वं प्रभोः स्त्रपनं करोति ।। Jain Educationa International - अम्भसि वः प्रशमयन्तु रजांसि नित्यं, श्रीनाभिसूनुजनिमज्जनसम्भवानि । यैवक्षितैरपि दृशा सहसा द्रवन्ति, प्राग्जन्मजा अपि कुकर्ममलावलेपा: ।। ५१ । । ( वसन्ततिलका) For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy