SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १७ त्रिषष्टिशलाकापुरुषचरित्रम् इति कुलकररीत्या राज्यं परिपालयति । सप्तमे नाभिनामनि कुलकरे सुषमदुःषमाभिधस्य तृतीयारकस्य एकोननवतिपक्षाधिकेषु चतुरशीतिपूर्वलक्षेष्ववशिष्टेष्वाषाढसुदि(वदि)चतुर्थ्यामुत्तराषाढानक्षत्रे सर्वार्थसिद्धविमानाट्युत्वा वज्रनाभजीवश्चतुर्दशस्वप्नसूचिततीर्थकरजन्मा नाभेर्नृपस्य पत्न्या मरुदेवायाः कुक्षाववतीर्णः । जातं च तदानीं नारकाणामपि सुखम् ।। ___ प्रात भेः कुलकरनृपस्य स्वप्नान् विचारयितुं प्रवृत्तस्य सम्प्राप्ताः शक्रादयः कृत्वा विचारं, तीर्थकरोत्पत्तिं च कथयित्वा, नियोज्य गर्भरक्षार्थमाभियोगिकान् देवान्, पुनर्गताः स्वं स्वं स्थानम् । नवमासाऽर्द्धाष्टमदिनान्ते च चैत्रबहुलाष्टम्यामुत्तराषाढायां युगलधर्मिणं पञ्चधनुःशतप्रमाणं सुवर्णवर्णं वृषभलाञ्छनं ज्ञानत्रयधरं सर्वाद्भुतलक्षणं चतुरशीतिपूर्वलक्षायुषं प्रथमं तीर्थकरं पुत्रं मरुदेवास्वामिनी प्रसूता। जातानि पञ्चदिव्यान्यन्तःपुरे । प्रमुदितं नारकैरपि । सम्प्राप्ताश्च स्वं स्वं नियोगमनुष्ठातुं दिक्कुमार्यः ।। ऊर्ध्वाधोदिग्भ्योऽष्टाष्टैकैका विककुभां चतुर्णां च । मध्यमरुचकानामिति षट्पञ्चाशद् दिशां कन्याः ।।४६।। सम्मार्जनजलसेचनदर्पणभृङ्गारतालवृन्तधृतिः । चामरदीपकनालच्छेदा दिक्कन्यकाकृत्यम् ।।४७।। ताश्च जिनजिनजनन्योरभ्यङ्गस्नपनहोमरक्षाद्यम् । सूतिगृहयाम्यपूर्वोत्तरकदलिगृहेषु कुर्वन्ति ।।४८।। सर्वदेवलोकघण्टानां युगपदनाहतध्वननेनासनकम्पेनाऽवधिना च जानन्ति जिनोत्पत्तिं शक्रादयः ।। ततः सौधर्मेन्द्रप्रथममुत्थाय सप्ताष्टानि पदानि गत्वा पञ्चाङ्गचुम्बितभूपीठः शिरस्यञ्जलिं बद्ध्वा शक्रस्तवेन स्तुत्वा नैगमेषिकृतलक्षयोजनमाने पालकविमाने सपरिवारः समारुह्य नन्दीश्वरे समायाति । ततः सङ्क्षिप्यमानं जिनजन्मगृहादीशानकोणे Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy