________________
१६
त्रिषष्टिशलाकापुरुषचरित्रम् स हस्तिना स्वं स्कन्धमध्यारोपितः । ततः परं सदैव तत्रारूढः स सर्वत्र विचरति । ततः मिथुनकैस्तस्य विमलवाहन इति दत्तं नाम । तदा चोत्सन्नप्रायाः स्वल्पदाश्च कल्पद्रुमा जाताः। मिथुनकानां ममत्वाबन्धः । परस्परपराक्रमेण च विमलवाहनेन राजधर्मः कथितः । तैः सर्वैः स एव कृतो राजा । तेन च हाकारनीतिः प्रयुक्ता । हा ! त्वया दुःकृतं कृतं वचन मात्रेणैव तेषामन्यायनिर्वृत्तिरिति । षण्मासावशेषायुषि च तस्मिन् चन्द्रयशोऽभिधानायां तद्भार्यायां मिथुनं जातम् । चक्षुष्मान् चन्द्रकान्तेति च तयोर्नामकृतम् । तौ चासङ्घयेयपूर्वायुष्कौ अष्टधन्वशत्वच्छ्यौ च षण्मासी यावत्प्रपाल्य ततः स्वं युग्मं समाधिना मृत्वा विमलवाहनः सुपर्णकुमारेषूत्पन्नः । चन्द्रयशास्तु नागकुमारेषु । हस्त्यपि मृत्वा नागकुमारेषु गतः ।।१।।
चक्षुष्मञ्चन्द्रकान्तयोरपि जातं मिथुनम् । सप्तधन्वशतोञ्चं पितृतो न्यूनायुष्कं च । यशस्वी सुरूपेति तयोर्नाम। चक्षुष्मञ्चन्द्रकान्तयोविपन्नयोः सुपर्णनागकुमारयोर्यथासङ्ख्यमुत्पत्तिः ।।२।।
यशस्विसुरूपयो राज्ये माकारनीतिर्जाता तयोरपि जातं मिथुनम् । सार्द्धषड्धनुःशतोचं पितृतो न्यूनायुष्कं च अभिचन्द्र-प्रियङ्गुरिति तयोर्नाम । यशस्विसुरूपयोरवसाने उदधिकुमारनागकुमारयोरुत्पत्तिः ।।३।।
अभिचन्द्रप्रियङ्ग्वोरपि जातं मिथुनम् । षड्धनुःशतोच्चं पितृतो न्यूनायुष्कं च प्रसेनजित् चक्षुःकान्तेति तयोर्नाम । अभिचन्द्रप्रियङ्ग्वोरन्ते उदधिकुमारनागकुमारयोर्गतिः ।।४।।
प्रसेनजिद्राज्ये धिक्कारनीतिर्जाता । तयोरपि जातं मिथुनम् । सार्द्धपञ्चधनुःशतोच्चं पितृतो न्यूनायुष्कं च मरुदेवः श्रीकान्तेति तयोर्नाम । प्रसेनजिञ्चक्षुःकान्तयोरायुःक्षये द्वीपकुमारनागकुमारयोरुत्पत्तिः।।५।।
मरुदेवश्रीकान्तयोरपि जातं मिथुनम् । सपादपञ्चधनुःशतोच्चं पितृतो न्यूनायुष्कं च नाभिर्मरुदेवेति तयो म । मरुदेवश्रीकान्तयोरऽन्ते द्वीपकुमारनागकुमारयोरुत्पादः ।।६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org