SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् स्त्रीणां चित्तस्य वित्तस्य, जीवितव्यस्य च क्वचित् । स्थिरता यदि तद्भग्नो, मार्गः स्वर्गाऽपवर्गयोः ।।४५।। ततो मा विषीद । ईदृश्य एव स्त्रियः, नावयोर्युगान्तरेऽपि चित्तमालिन्यं, निर्मल एव त्वमिति । द्वावपि प्राग्वदेव वर्तेते । सागरचन्द्रश्च प्रियदर्शनां प्रति विरक्तः। सा च माऽनयोर्मत्कृतो भेदोऽभूदिति भत्रे न शशंस । एवं च सति सागरचन्द्रेण स्वविभवं दीनादिषु विश्राण्य स्वायुः प्रान्तः साधितः । प्रियदर्शनापि विपन्ना ।। जम्बूद्वीपे भरतदक्षिणखण्डे गङ्गासिन्ध्वन्तर्भागेऽवसर्पिण्यास्तृतीयके सुषमदुःषमारके पल्याष्टमांशे शेषे सागरचन्द्रः प्रियदर्शना च युगलिषूत्पेदाते ।। प्रस्तावात् कालचक्रस्वरूपं यथा । पञ्चसु भरतेषु पञ्चस्वैरवतेषु अवसर्पिण्युत्सर्पिणीभ्यां द्विधा कालः। द्वयोरपि क्रमोत्क्रमगैः षड्भिररैादशारं कालचक्रं सागरोपमं विंशतिकोटिकोटिप्रमाणम् । तत्रैकान्तसुषमायां सागरोपमाणां चतस्रः कोटिकोटयः । सुषमायां तिस्रः कोटिकोटयः । सुषमदुःषमायां द्वे कोटिकोटी। दुःषमसुषमायां द्वाचत्वारिंशद्वर्षसहस्रोना एका कोटिकोटिः । दुःषमायामेकविंशतिवर्षसहस्राः। एकान्तदुःषमायामप्येकविंशतिवर्षसहस्राः प्रमाणम् । सर्वा ये दशकोटिकोटयः । प्रथमे अरत्रये यथासङ्ख्यं मानां त्रियेकपल्यानि जीवितं, त्रिद्येकगव्यूतान्युच्छ्रयः, त्रिद्वयेकदिनतः कल्पद्रुमफलं भोज्यम् । चतुर्थे त्वरके मर्त्यानां पूर्वकोटिरायुः, पञ्चधनुःशतान्युच्छ्रयः । पञ्चमे त्वरके मर्त्यानां वर्षशतमाऽऽयुः, सप्तहस्ताश्चोच्छ्रयः । षष्ठे त्वरके मर्त्यानां षोडशाब्दान्यायुः, एकहस्तश्चोच्छ्रयः । उत्सर्पिण्यां तावत्प्रमाणायामेत एव षडप्यरा नाम प्रमाणयुगलितनुमानजीवित- सङ्ख्याभिरुत्क्रमतो ज्ञेयाः ।। तौ च तृतीयारकप्रान्तजातत्वाद् दैर्ध्य नवधनुःशतमानौ पल्योपमदशमांशायुष्को च । अशोकदत्तोऽपि मृत्वा प्राग्जन्मकृतमायाप्रभावात् तत्रैव चतुर्दन्त: श्वेतवर्णो हस्तिः समुत्पन्नः । एकदा तेन दन्तिना भ्रमता प्राग्जन्ममित्रं सागरचन्द्रजीवो युग्मधर्मी दृष्टः । स्नेहातिरेकेण द्वयारप्यन्योन्यमवलोकयतोरुत्पन्नं जातिस्मरणम् । अनिच्छन्नपि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy