________________
१४
त्रिषष्टिशलाकापुरुषचरित्रम्
पुन्नाग ! पुन्नागतरुः पुरस्तादशोक ! नाशोकवनं विदूरे । समाश्रितश्रीफल! लक्षसङ्ख्यफलोज्ज्वलः श्रीफल एष वृक्षः । । ४३ ।। (उपजातिः)
यावदेवं वनपालेन दृश्यमानवृक्षविशेषः सानन्दमवलोकयन्नृपोऽस्ति तावत् त्रायध्वमिति तरुगह्वरात् त्रस्तस्त्रीध्वनिरुत्थितः । किमेतदिति सम्भ्रान्तोऽभिधावितः सन्निहितवर्ती सागरचन्द्रः । दृष्टानेन बन्दिकारैर्धृता सालङ्कारा पूर्णभद्रश्रेष्ठिकन्या प्रियदर्शना । सहसैवैकस्य बन्दिकारस्य पाणिमुन्मोट्य गृहीता तेन क्षुरिका । प्रवृत्तस्तान्निहन्तुम् । प्रणष्टाः शृगाला इव बन्दिकाराः । हृष्टया दृष्टस्तया सानन्दं कोऽयं मे प्राणदाता, तदस्याप्यहमात्मानं ददामीति सङ्कल्प्य, कृतो हृदि निश्चयः, नान्यममुं विना परिणयामीति । गता सा स्वगृहे । सोऽपि तत्कालोन्मीलितप्रेमाऽऽबन्धो बबन्ध हृदि निश्चयं यदहमप्येनामेवोद्वहामि, नान्यामिति । समये च गतो मित्रेण समं विकल्पाकुलः स्वगृहे । ज्ञातवृत्तान्तेन च पित्रा समाहूय, रहसि भणितोऽसौ । ।
राज्ञामेव विराजतेऽद्भुतभुजा -ऽवष्टम्भसंरम्भिता, नेयं विप्रवणिग्जनस्य यशसे, बर्हिस्तुलाधारिणः । उत्तीर्ण निजजातितो न हि शुभोदर्काय पुंश्चेष्टितं, पक्षोत्थानमुपानयेत्र मरणं, किं कीटिकानां कुले ॥ ४४ ॥
(शार्दूलविक्रीडितम्)
अयं च त्वन्मित्रमशोकदत्तः कदापि तव निश्चितं शोकप्रदो भविष्यतीति । सागरचन्द्रेण पादयोर्निपत्य क्षमितः पिता स्वापराधम् । पित्रापि पूर्णभद्रश्रेष्ठिनं प्रार्थ्य विवाहितस्तां प्रियदर्शनामसौ । सुखमुपभुञ्जानस्यैवं तस्य गतो भूयान् कालः ।।
1
एकदा सागरचन्द्रे बहिर्गतेऽशोकदत्तगृहमायातस्तेन प्रार्थिता प्रियदर्शना तया चाक्रोशदानपूर्वं निष्कासितः । स दुरात्मा गतः, श्याममुखो दृष्टः सागरचन्द्रेण, पृष्टश्च दौर्मनस्यकारणम् । असावपि सदुःखमिव प्रोवाच । गतोऽहं त्वगृहे, रह इति प्रार्थितश्च त्वत्पत्न्या, ततः प्रणश्य निसृतोऽहं प्राप्तश्च त्वदन्तिकमिति ।। सागरचन्द्रेणोक्तम्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org