SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् साधुयोग्यानपानाद्यानयनादिना वैयावृत्येन चक्रवर्तिभोगफलं कर्म समुपार्जितम्। सुबाहुना तु महर्षीणां विश्रामणया लोकोत्तरं बाहुबलमुपार्जितम् । वज्रनाभोऽपि बाहुसुबाह्वोर्वारंवारं प्रशंसां करोति । ततो पीठमहापीठाभ्यामसहनाभ्यां चिन्तितम्।। उपकारकरस्यैव, गौरवं क्रियते जनैः । निश्छायो निष्फलस्तालः, सलिलैः केन सिच्यते ।।४।। तदावामपि गुरोर्गच्छस्य चानुपकारको इति, न प्रशस्यावहे । इतीर्ष्याप्रत्ययं स्त्रीत्वायुस्ताभ्यामुपार्जितम् । षड्भिरपि चतुर्दशपूर्वलक्षी यावनिष्कलङ्कं व्रतं पालितम्। स्वायुः प्रान्ते मृत्वा।।११।। सर्वार्थसिद्धे विमाने षडप्युत्पन्नाः।।१२।। ॥ इत्यादिदेवस्य पूर्वभववर्णना समाप्ता।। ।।।अथ कुलकरोत्पत्तिः।।। जम्बूद्वीपेऽपरविदेहेऽपराजितायां पूर्यामीशानचन्द्रो राजा, चन्दनदासः श्रेष्ठी, तत्पुत्रः सागरचन्द्रः । स चान्यदा गतो राजानं द्रष्टुम् । अत्रान्तरे वनपालेनागत्य विज्ञप्तो राजा ।। अशोकैः पुत्रागै-स्तरुभिरपरैर्वासकरणेस्तवोद्यानं पूर्वः, कुलमिव नरैः पूर्णमखिलम् । अमुस्मिनैकोऽपि, प्रकृतिकठिनो नापि कुटिलः, फलैनैव त्यक्तः, प्रणयिषु नवातापशमनः ।।४२।। (शिखरिणी) ततः प्रहृष्टेन राज्ञा सर्वैरपि सपरिवारैः पौरैः प्रातरुद्याने समागन्तव्यमित्यादिष्टम् । साग़रचन्द्रश्च स्वयमेव सप्रसादमामन्त्रितः । ततो गतः सर्वः । कोऽप्युद्याने सशृङ्गारो लोकः । सागरचन्द्रोऽप्यशोकदत्तेन मित्रेण समं गतः । सम्प्राप्तश्च सान्तपुरो राजा ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy