________________
त्रिषष्टिशलाकापुरुषचरित्रम्
इति श्रुत्वा षडपि प्रतिबुद्धास्ते मुनिमनुज्ञाप्य गताः कृत्यशेषकरणाय । मुनिरप्यन्यत्र विजहार । तैश्च गत्वा चिकित्साऽवशेषतैलकम्बलचन्दनविक्रयसुवर्णेन स्वकीयद्रव्येण च स्तोकदिनमध्ये निर्मापितमुत्तुङ्गशृङ्गं जिनायतनम्। ततः षड्भिरपि गृहीतं व्रतं पालितं निष्कलङ्कम्। मृत्वा ।।९।। षडप्युत्पन्ना ।।१०।।
१२
जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये पुण्डरीकिण्यां वज्रसेनस्य तीर्थकर भूपतेः धारिण्याः पत्न्याः कुक्षावच्युताच्युत्वा, वैद्यजीवश्चतुर्दशस्वनसूचितचक्रिजन्मा अवतीर्णः । समये च जातः पुत्रः, कृतं तस्य वज्रनाभ इति नाम । शेषा अपि चत्वारश्युत्वा तस्यैव वज्रसेनतीर्थकर भूपभार्याया धारिण्या एव कुक्षौ क्रमेण राज मन्त्रि- श्रेष्ठिसार्थवाहपुत्रजीवाः पुत्रत्वेन समुत्पन्नाः । तेषां बाहु - सुबाहु - पीठ - महापीठा इति क्रमेण नामानि । केशवजीवोऽपि सुयशा इति नाम्ना तत्रैव राजपुत्रः समुत्पन्नः । स च बाल्यादपि वज्रनाभमनुश्रितोऽस्ति । क्रमेण शेषा अपि वज्रनाभस्यान्तरप्रीतिपदं सञ्जाता । प्राप्ताश्च पडपि तारुण्यम् । श्रीवज्रसेनोऽपि समये लोकान्तिक देवैर्विज्ञप्तस्तीर्थप्रवर्तनाय विन्यस्य स्वराज्ये पुत्रं वज्रनाभं सांवत्सरिकदानपूर्वं प्रपन्नः सर्वविरतिम् । मनःपर्योयं केवलं च ज्ञानमस्योत्पन्नम् । प्रवृत्तो नानादेशेषु भव्यान् बोधयितुं । वज्रनाभस्यापि समुत्पन्नं चक्ररत्नम् । साधितषट्खण्डः क्रमेण जातश्चतुर्दशरत्त्रस्वामी नवनिधीश्वरः सर्वचक्रवर्तिवैभवभाजनम् ।।
अन्यदा श्रीवज्रसेनतीर्थकरः समवसृतस्तत्र । सपरिवारो गतश्चक्री पितरं तीर्थकरं वन्दितुम् । वन्दित्वा समासीने तस्मिन् कृता प्रभुणा देशना ।।
जन्तोरनन्तेषु भवेषु भोगाः, सिद्धास्तदप्यस्य न जातु तृप्तिः । नवं नवं वेत्ति भवे भवेऽसौ, सन्तोषपोषः सुखकृत् तदेकः ॥ ४० ॥ (उपजातिः)
इति श्रुत्वा पुत्रे राज्यं न्यस्य वज्रनाभश्चक्री बाहु - सुबाहु - पीठ - महापीठ - सुयशःप्रभृतिभिः समं व्रतं प्रतिपन्नवान्, जातश्चतुर्दशपूर्वधारी, जाताश्चैकादशाङ्गधारिणः शेषाः । वज्रनाभमुनिना च विंशत्या स्थानकैरर्जितं तीर्थकृन्नामकर्म । बाहुना
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org