________________
त्रिषष्टिशलाकापुरुषचरित्रम् कुष्ठाकुलमालोकयतां पञ्चानामप्युत्पन्ना कृपा । पठितं तैः।।
प्रकृतिरियं जन्तूनां, व्यसनेष्वप्रेरिताः प्रवर्तन्ते । शुभकर्मणि च नियुक्ताः, कुप्यन्ति समुद्विजन्ते च ।।३७।। (आर्या) उपहतो व्यसनैर्गणिकादिभिः, किमपि चेतयते न धनं किरन् । सुकृतकर्मणि तु व्ययितान् लवा-नपि सहस्रसमान् मनुते जनः ।।३८।।
(द्रुतविलम्बितम्) इत्यादिवचनैः प्रोत्साहितो जीवानन्दवैद्यस्तञ्चिकित्सार्थम् । तेन चोक्तम् । महत्या सामग्र्या चिकित्स्योऽयं मुनिद्र्व्यव्ययेन महता लक्षपाकं तैलं गोशीर्षं चन्दनं रत्नकम्बलश्च सम्पद्यन्ते। तत्रापि तैलमस्त्येव मम गृहे तदहं करिष्यामि । शेषं तु चिन्तनीयमिति। ततो गता पञ्चापि ते जीर्णश्रेष्ठिसमीपे । तैर्याचितं मूल्येन रत्नकम्बलादिकम्। पृष्टं श्रेष्ठिना किमर्थमिति । तैरुक्तं साधुमेकं चिकित्सिस्यामः । जातसंवेगेन श्रेष्ठिना समर्पितंसर्वंसाधिकम् । नगृहीतंमूल्यम् । तेनैवसंवेगेन प्रवृद्धोत्साहः, सर्वमपि प्रोज्य जग्राह सुगुरुमूले दीक्षाम् । कृत्वा कर्मक्षयं सिद्धः श्रेष्ठिमुनिः। ते च तैलादिसामग्री गृहीत्वा वैद्येन समंगताः षडपिजनाः कायोत्सर्गस्थस्य मुनेः समीपमरण्ये। अनुज्ञाप्य च मुनिं कृतः सर्वाङ्गमभ्यङ्गः । संवाहितमङ्गं प्रच्छादितो रत्नकम्बलेन तैलतापव्याकुलाश्च निःसृताः कम्बललग्नाः कृमयः सञ्चारिताः पूर्वमृतगोशवे। चर्चितश्चन्दनेन। एवमनेकप्रकारां कृत्वा क्रियां कृतो नीरोगो मुनिः। जातः प्राग्वत्सुवर्णवर्णशरीरः। आसितः समुचितासने । पादयोर्निपत्य क्षमितः सर्वैराशातनाम्। धर्मलाभाशीर्वादपूर्वं च कृता मुनिना देशना ।।
आहारो मितकालमेव कुरुते, क्षुद्व्याधिबाधाविधि, प्रोक्तं प्राज्यफलं तथापि सुतरा-माहारदानं श्रुते। देहस्त्वेष चिकित्सितश्चिरतरं, धर्मोपकारी मुनेस्तद्ग्लानस्य चिकित्सनं जिनतनू-पास्त्या समं वर्णितम्।।३९।।
(शार्दूलविक्रीडितम्)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org