________________
१०
त्रिषष्टिशलाकापुरुषचरित्रम् अथ श्रीमतीभ्रातुः पुष्कलपालस्य विप्रतिपन्नाः सीमसामन्तास्तत्साहाय्याय श्रीमत्या समं चलितः पुण्डरीकिणं प्रति वज्रजङ्घः नृपः । अर्द्धमार्गगतस्य च मार्गज्ञैरत्र शरवणमध्ये दृग्विषः सर्पोऽस्तीत्यस्य विज्ञप्तम् । ततो गतोऽन्येन पथा तत्र। पुष्कलपालस्याऽपि वशीभूताः शत्रवः। सत्कृत्य विसृष्टो वज्रजङ्घः शरवणसमीपागतश्च पुनरपि विज्ञप्तस्तैः । देव ! केवलज्ञानमुत्पन्नमत्र द्वयोरनगारयोः जातं च देवानामागमनम्। तदुद्योतेन प्रतिहता दृग्विषस्य विषशक्तिः अद्याप्यत्रैव धर्मं दिशन्तौ तौ स्त इति। ततो गतः श्रीमतीसहितस्तौ वन्दितुं नृपः। वन्दित्वोपविष्टे तस्मिन् कृता ताभ्यां धर्मदेशना।।
अपारे संसारे, जननमरणश्रेणिषु पुराऽनुभूतं यदुःखं, सुखमपि च जीवेन यदहो। न ताभ्यां सन्तुष्टः, स्पृहयति परप्राणहतये
रतः शब्दाद्येषु, श्लथयति तपःकर्मणि लयम् ॥३६॥ (शिखरिणी) इत्याकर्ण्य प्रबुद्धौ द्वावपि, वन्दित्वा मुनी, स्वपुरमागत्य प्रातः सुतं राज्ये न्यस्य प्रव्रजिष्याव इति निश्चित्य रात्रौ वासगृहे सुप्तौ तौ दम्पती । पुत्रेण चाविज्ञाय तदभिप्रायं राज्यलोभेन वासभवने विषधूपप्रयोगः कृतः । शुभभावौ च द्वावपि मृत्वा ।।६।। उत्तरकुरुषु समुत्पन्नौ युग्मरूपिणौ ।।७।। स्वायुःप्रान्ते मृत्वा द्वावपि सौधर्म जातौ स्नेहलौ सुरौ ।।८।।
वज्रजङ्घजीवस्ततश्युत्वा जम्बूद्वीपे महाविदेहे क्षितिप्रतिष्ठितपुरे सुविधेवैद्यस्य पुत्रो जातः । कृतं तस्य जीवानन्द इति नाम । तदानीं च तत्रान्येऽपि च चत्वारो दारका जाताः । ईशानचन्द्रस्य राज्ञः पुत्रो महीधरः, मन्त्रिपुत्रो सुबुद्धिः, सार्थवाहपुत्रः पूर्णभद्रः, श्रेष्ठिपुत्रश्च गुणाकरः । पञ्चानामपि प्रवर्द्धमानानां तेषामन्योन्यं प्रीतिरत्यर्थं जाता । श्रीमतीजीवोऽपि च्युत्वा तत्रैव श्रेष्ठिपुत्रः केशवनामा जातोऽस्ति । सोऽपि षष्ठं मित्रम् । एकदा जीवानन्दस्य वैद्यस्य गृहे पश्चापि जनाः सम्भूय स्वैरं भ्रमन्तः समायाताः । तदानीं राजर्षिर्गुणाकरो नाम व्रती भिक्षार्थमागतः । तं च
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org