SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् ललिताङ्गेनोक्तम् । यद्यप्येवं तथापि न प्रियामन्तरेण क्षणमपि स्थातुं शक्तोमि । ततो देवः क्षणं सावधानो भूत्वा प्रोवाच । स्थिरीभव, लब्धा मया भवत्प्रिया ।। ८ I धातकीखण्डे प्राग्विदेहेषु नन्दिग्रामे दरिद्रस्य श्रेष्ठिनो नागिलस्य सप्तानां पुत्रीणामुपर्यष्टमी कुरूपात्यन्तनिर्भाग्या पुत्री जाता । तस्यां जातायां प्रणश्य क्वापि गतः पिता । अभिधानमपि न केनापि तस्याः प्रदत्तम् । ततो निर्नामिकेति जनैरुच्यमाना प्राप्ता वृद्धिम् । जीवति च दुष्कर्मवृत्त्या । एकदाऽम्बरतिलकगिरौ गता सा दार्वाद्याऽऽनेतुम् । दृष्टस्तत्र तया तत्कालोत्पन्नकेवलज्ञानः सुरनिर्मितस्वर्णसिंहासनासीनः सभायां धर्मं समुपदिशन् युगन्धरनामा मुनिः । गत्वा वन्दितः सप्रमोदं, मुनिनाऽपि दुःखितेति विशेषतः प्रदत्ता तस्याऽनुशास्तिः ।। क्षेत्रं कलत्रमशनं वसनं धनं च, येषां समस्ति सुखिनो नियमान्न तेऽपि । एतद्विपर्ययजुषोऽपि न दुखिनः स्यु रज्ञानतैव परमार्थवशेन दुःखम् ।। ३३ ।। ( वसन्ततिलका) यद्यत्समाचरति मूढमतिः सुखाय, तत्तत्सुखभ्रमकृदायतिदुःखदं तत् । ज्ञानी हि कर्मविगमाय करोति यत्नम्, निष्कर्मकस्य सुखमेव न दुःखलेशः ।। ३४ ।। ( वसन्ततिलका) इत्यादि श्रुत्वा प्रतिबुद्धा सा । प्रपन्ना च सम्यक्त्वमूलं श्रावकधर्मम् । दुर्भगेति न केनापि सा परिणीता । सम्प्रति च गृहीतानशना तत्रैवाऽद्रौ पुनरागतस्य तस्यैव मुनेः पार्श्वे विद्यते । तद्गत्वा त्वं, तस्याः स्वं प्रदर्शय । येन त्वद्रागिणी मृत्वा सा स्वयम्प्रभैव समुत्पद्यते । तेनापि कृतं तथा । साऽपि तेन निदानेत मृत्वा, समुत्पन्ना स्वयम्प्रभा। ततः परं प्राग्वदवियुक्तौ तौ भूयासं कालमतिवाहितवन्तौ । अन्यदा ललिताङ्गस्याऽऽ सन्नच्यवनचिह्नान्युत्पन्नानि । तदानीं चेशानेन्द्राऽऽदेशाद दृढधर्मदेवः समायातस्तदाऽऽह्वानाय । तत तेन सह गत्वा कृता नन्दीश्वरे यात्रा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy