________________
त्रिषष्टिशलाकापुरुषचरित्रम् ते जीवितम् । अन्यञ्चोक्तं, यदद्य निशावशाने दृष्टो महाबलनृपेण स्वप्नो यदहं क्षिप्तोन्धकूपे सम्भिन्नश्रोतःप्रमुखैरमात्यैः स्वयम्बुद्धेन पुनरुद्धृत इति । सम्प्रति च त्वदर्शनाभिलाषी वर्ततेऽसौ महात्मा । भावितीर्थकरजीवश्चायमिति । ततोऽहं सत्वरं तौ वन्दित्वाऽनुज्ञाप्यागत्य च देवपादान् समयेऽपि विज्ञप्तवान् । ततो मिलितप्रत्ययः संविग्नः सहसैव राजा गृहीतः पश्चात्तापेन प्रवृत्तो भणितुम्
तारुण्ये न कृतः कुकर्मनिरतै-ब्रह्मण्यऽजिह्मो लयः, किं सम्प्रत्युपजातवार्द्धककलाः, कुर्मः सुशर्मावहम् । अङ्गे भङ्गुरतां गतेऽद्य जरसा, कृत्येषु नैव क्षमाः, पश्चात्तापहते च चेतसि रतिधर्मस्य कौतस्कुती ।।३१।। (शार्दूलविक्रीडितम्)
इत्युक्त्वा, दत्त्वा महादानानि, कृत्वा चैत्येषु पूजा, विन्यस्य स्वपुत्रं राज्ये, जग्राह व्रतम् ।।
__ कृत्वा द्वाविंशतिदिनान्यनशनं समाधिना मृत्वा।।४।। समुत्पन्नो ललिताङ्गनामा देव ईशाने श्रीप्रभविमाने ।मिलित्वाऽभियोगिकदेवैः कारितः पुस्तकवाचनमाणवस्तम्भ- स्थितार्हदऽस्थ्यऽर्चनादिक्रमम् । सस्मार चावधिज्ञानेन जन्मान्तरकृतं जिनधर्माराधनम् । चकार मेर्वादिषु शाश्वताऽर्हद्विम्बवन्दनाम् । शुश्राव गत्वा महाविदेहादिषु तीर्थकरदेशनाम् । स्वयम्प्रभाभिधाना च तस्य महादेवी परमप्रीतिस्थानमभूदविरहितश्च तया स सदैव चिक्रीड । अन्यदा स्वायुरन्ते सहसैव च्युता स्वयम्प्रभादेवी । पीडितस्तद्विरहेण सः ।।
इतश्च स्वयम्बुद्धोऽपि गृहीतदीक्षोऽनशनेन मृत्वा, शक्रसामानिक्रो दृढधर्माभिधानो जातो देव ईशाने, प्राग्भवसौहार्दादागत्य स ललिताङ्गदेवं प्रोवाच।।
अनित्यः सर्वोऽयं, भवभवनवर्ती ननु जनः, प्रमादी जीर्यन्तं, कलयति न कश्चिनिजमपि । समुत्पन्नः को वा, न मृतिपदम-स्त्यङ्गिषु ततो, विषादः कातर्यं, न खलु महतामेतदुचितम् ।।३२।। (शिखरिणी)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org