________________
त्रिषष्टिशलाकापुरुषचरित्रम् उत्तरकुरुषु सीतानद्युत्तरतटे जम्बूवृक्षस्य पूर्वतः समुत्पन्नो युग्मधर्मी पुमान्।।२।।
ततश्च मृत्वा प्राग्जन्ममुनिदानफलानुबन्धात् सौधर्मो देवो जातः ।।३।।
ततोऽपि च्युत्वा अपरविदेहे गन्धिलावतीविजये वैताढ्ये गन्धारदेशे गन्धसमृद्धनाम्नि विद्याधरपुरे राज्ञः शतबलस्य पुत्रो महाबलो नाम्ना जातः । प्राप्तश्च तारुण्यम्, समयेऽथ स्वयं राज्ञा ।।
उच्छेदो विषयस्य वत्स ! करणव्यापाररोधक्रिया, साधोरेव यशस्तनोति न पुन, विश्वम्भरायाः प्रभोः। राजानः क्षमयैव साधव इव, श्लाघ्या भवन्त्यन्वहं, निर्भीका: परलोकतश्च समिति-स्फारकस्फुरत्कीर्त्तयः।।२८।।
(शार्दूलविक्रीडितम्) इति शिक्षां दत्त्वा स्थापितो निजराज्ये स्वयं च नृपः प्रव्रज्य स्वायुःक्षये स्वर्गी जातः । महाबलोऽपि प्रसक्तो भोगेषु न चेतयति किञ्चन ।।
एकदा आस्थानस्थितस्य महाबलनृपस्य पुरः प्रवर्तमाने सङ्गीतके स्वयम्बुद्धाभिधेन मन्त्रिणा विज्ञप्तम् ।।
एतैः सङ्गीतकैर्देव-देवा अपि विमोहिताः । कालं नाकलयन्त्येव प्राज्यमप्यात्मनो गतम् ।।२९।। एतन्मानुष्यकं नीवी, जन्तोर्धर्मधनाऽर्जने ।
वृथा निर्गमितं तचेत्, कुतः कल्याणसङ्गमः ।।३०।।
प्रोक्तं राज्ञा मन्त्रिन् ! युक्तमेव धर्मासेवनं, परं समये, नैवासमये । ततोऽमात्येनोक्तं, देव ! गतोऽहमद्य नन्दनोद्याने, दृष्टौ तत्र मया महाज्ञानिनौ चारणमुनी। श्रुता तद्देशना, समये च पृष्टं मया भवदायुःप्रमाणम् । ताभ्यां च मासमात्रं निवेदितं १ मूलधनम् (पूंजी)।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org