________________
४
त्रिषष्टिशलाकापुरुषचरित्रम्
भरतसगरमधवसन-त्कुमारकाः शान्तिकुन्थ्वरशुभोमाः । समहापद्मौ हरिषेण - जयौ च ब्रह्मदत्त इति चक्रिणः ।। २१ । ।
अश्वग्रीवस्तारक- मेरकमधवो निशम्भकश्च । बलिः प्रह्लादरावण-जरासन्धाः प्रत्यर्धचक्रभृतः ।। २२ ।। (आर्या)
अचलो विजयो भद्रः, सुप्रभश्च सुदर्शनः । आनन्दानन्दनः पद्मो, रामोऽमी बलभद्रकाः ||२३||
त्रिपृष्ठश्च द्विपृष्ठच, स्वयम्भूः पुरुषोत्तमः । पुरुषसिंहः पुरुष - पुण्डरीकश्च दत्तकः ।। २४ ।
नारायणश्च कृष्णश्चा- ऽर्द्धचक्रिण इमे मताः । एते शलाकापुरुषा, भरतक्षेत्रसम्भवाः ।। २५ ।।
|| श्रीऋषभदेवचरित्रम् ।। ।
युगपदखिललोक-श्रोत्रपावित्र्यकृद्यज्जनयति तनुभाजां यच कल्याणकोटीः । अभिनवमिव किञ्चित् कुण्डलद्वन्द्वमेतचरितमृषभदेव - स्याऽस्तु कर्णातिथिर्वः ।। २६ ।। (मालिनी)
धनसार्थवाह १ मिथुनक २ सौधर्मामर ३ महाबलक्षितिपाः, ४ ईशाने ललिताङ्गाभिधदेवो ५ वज्रजङ्घनृपः, ६ मिथुनक ७ सौधर्मसूरौ, ८ वैद्या ९ ऽच्युतदेव १० चक्रि ११ सर्वार्थाः, १२ ऋषभ १३ श्चादिजिनेन्दोर्भवत्रयोदशकमित्याहुः ।।
अपरविदेहे क्षितिप्रतिष्ठितपुरे धनसार्थवाहो महासमृद्धं सार्थं कृत्वा प्रचलितो वणिज्यार्थं वसन्तपुरे । तेन समं गन्तुं प्रवृत्ताः प्राज्या वणिज्याकारका वनीपकादयश्च । १ साधु० ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org