SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् सत्कर्मनिर्मितिजुषां प्रथमो गुणोऽयं, यत्सङ्गतिः सुकृतिभिर्व्यसनानिवृत्तिः । पुण्यानुबन्धघटना परमो विवेकः, कीर्तिः कलङ्कविगमः कुमतेर्निरासः ।।१३।। (वसन्ततिलका) सत्कृत्यमास्ते न हि धर्मतः परं, चतुर्विधेऽप्यत्र कुकर्महत्तपः। स्वाध्याय एवेह पर: स पञ्चधा, तत्राप्यलं धर्मकथा विरक्तये।।१४।। (वंशस्थः) तीर्थङ्कराणां सहिता चरित्रै-राख्यायिकाभिश्च महामुनीनाम्। कथापि धर्मस्य ददाति हर्ष, पुष्णाति वैराग्यमघं निहन्ति।।१५।। (उपजाति:) ये वर्णयन्ति कवयो वनितां नितान्तमत्युक्तिभितरुणलोकमनोऽनुरक्तत्यै । कन्दर्पसर्पविषविह्वलजीवलोक त्राणाय ते गरलभारणिकां पठन्ति ।।१६।। (वसन्ततिलका) व्युत्पत्तिमन्तः सरसाः सहस्रं पूर्वेः कृताः सन्ति महाप्रबन्धाः। स्त्रीबालबोधार्थमहं शलाकापुंसां त्रिषष्ठेश्चरितानि वच्मि ।।१७।। (इन्द्रव्रज्रा) तीर्थेशचक्रिप्रतिविष्णुसीरिणः, कृष्णा जिनार्कग्रहसम्मिताः क्रमात् । एभिः शलाका शिवसौख्यलब्धये, क्षिप्ता शलाकापुरुषास्ततस्त्वमी ।।१८।। (इन्द्रवज्रा) ऋषभाऽजितसम्भवकाऽभिनन्दनाः सुमतिरथ च पद्मप्रभः । ससुपार्श्वचन्द्रप्रभसुविधिशीतलोऽतः परं श्रेयान् ।।१९।। (आर्या) श्रीवासुपूज्यविमलाऽनन्ता धर्मोऽथ शान्तिकुन्थ्वरकाः । मल्लिं सुव्रतनमिनेमिपार्श्ववीरा जिना एते ।।२०।। (आर्या) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy