SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् पूर्वाणि भासन्ति चतुर्दशेति, भव्यानिव ज्ञापयितुं तदुक्तीः । चतुर्दशग्रन्थशतान्यकार्षीद, यस्तं स्तुमः श्रीहरिभद्रसूरिम् ।।६।। (उपजातिः) श्रीहेमसूरेर्मुनिवृन्दवृन्दा-रकस्य तस्याऽस्तु नतिर्मदीया । यद् ग्रन्थसिद्धाञ्जनसजयेव, चक्षुर्निरीक्षेत जनोऽखिलार्थान् ।।७।। (इन्द्रवज्रा) व्यामोहहालाहलदूषितं मे, प्रबोधशक्त्यद्भुतमन्त्रजापात् । चैतन्यमुल्लासितमञ्जसा यैर्जयन्तु ते श्रीमलधारिपादाः ।।८।। (उपजातिः) दोषान् गुणान् सत्कृतिषु ब्रुवन्तौ, शक्यौ निरोद्धं खलसजनौ न । स्तवास्तवाभ्यामपि निष्फलं हि, सङ्कीर्तनं शास्त्रमुखे तयोस्तत् ।।९।। (इन्द्रवज्रा) प्रबन्धः पङ्गुवत् कश्चित्, गृहान हि बहिर्ब्रजेत् । अरुणोदयवत् कोऽपि, विश्वं व्याप्नोति तत्क्षणात् ।।१०।। यादृग्गर्भगतस्य याति समय-स्तादृक्ष एवाङ्गिनो, बाल्येऽपि व्रजति स्मरज्वरभृतो, यूनो विवेकः कुतः । शक्तिः कैव जरागमे तदनयो-रन्तर्दिनान्यल्पकान्यालस्यं परिहत्य कृत्यविषये, किञ्चिन्मनो दीयताम् ।।११।। (शार्दूलविक्रीडितम्) कलिः कालः क्रोधप्रमुखगुरुदोषैः कलुषितो, वपुष्मन्तश्चिन्ताभरविधुरचित्ताश्चिरममी । कुतो धर्मध्यानं धृतिरपि कुतः कुत्र सुखिता, मितं चायुस्तस्मात् कुरुत सुकृतं शक्तिवशतः।।१२।। (शिखरिणी) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy