________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१३९ इतश्च कश्चिदुच्छन्नवंशोऽग्निर्नाम पुमान् जमकुलपतेः शिष्यत्वं प्रपन्नः । कृतं जमदग्निरिति तस्य नाम। स च महातपःपरः सन् गमयन्नस्ति । अत्रान्तरे वैश्वानरनाम्नः सम्यग्दृष्टेर्देवस्य मिथ्यादृष्टिना धन्वन्तरिनाम्ना देवेन सह धर्माधर्मविषये वादो जातः। सम्यग्दृष्टिना प्रोक्तम्- यल्लिङ्गिमात्रस्याऽपि जैनमुनेः सत्त्वं निश्चयश्च धर्मविषये, स मिथ्यादृष्टेर्महामुनेरपि नास्तीति । ततो द्वयोरपि गच्छतोस्तत्कालगृहीतव्रतः श्रीवासुपूज्यशिष्यो राजर्षिः पद्मरथो नाम दृष्टिपथमायातः । तस्यानुकूलाः प्रतिकूलाश्चोपसर्गाः प्राज्याः कृताः । स च यदा स्थाणुवन्न चलितस्ततः क्षमयित्वाऽग्रतो गतौ । दृष्टो जमदग्निः। तस्य श्मश्रुमध्ये चटकमिथुनरूपाभ्यां भूत्वा कृतं नीडम् । प्रारब्धा वार्ता । प्रोक्तं पक्षिणा- प्रिये ! याम्यहं कार्याय । यदि नागच्छामि तदा देवस्य शपथः । पक्षिण्याभिहितम्- यदि शीघ्रं न समेष्यसि तदास्य मुनेः पापेन ग्रहीष्यस इति । ततः कुपितेन मुनिना तन्मिथुनं हस्ते धृत्वा पृष्टम् । किमित्यहं पापीयानिति । तयोक्तम्- अपुत्रस्य गतिर्नास्तीति । ततो मुनेर्मनो गार्हस्थ्यायोत्सुकं जातम् ।। इदं च न तेन चिन्तितम् यत्
चेतश्चिन्तितमर्थजातमखिलं न क्वापि सम्पत्स्यते, प्रत्याशां परिहत्य कृत्यविषये-ष्वात्मन किं लीयते । सम्पत्तेविरहेण धर्मरहितः, प्राच्यो भवो निश्चित:, कुध्यानेन विमूत्र्यते किमयम-प्येष्यंस्तु नामुं विना।।१९४।।
(शार्दूलविक्रीडितम्) गतश्च शतपुत्रीकस्य जितशत्रुनृपस्य समीपे। याचिता कन्यैका। राज्ञाप्यविमृश्यैव स्वपदमपरिज्ञायैव वस्तुसद्भावं प्रायः शलभानामिव रूपे दृक् पतति नारीणामिति परिभाव्य प्रसन्नमुत्तरं कृतम्- या काचित् त्वां स्पृहयति सा तवैव मत्पुत्रीति । ततः स वार्द्धकदूषितो यां यां भाषयति तया तया स निन्द्यते । ततः कुपितेन ताः सर्वाः कुब्जीकृताः । बहिश्च रेणुभिः क्रीडन्ती दृष्टा मुनिना कन्यैका। तदीयकन्ययाऽपि मुनिपाणिस्थबीजपूरकस्य ग्रहणाय हस्तो वाहितः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org