SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३८ त्रिषष्टिशलाकापुरुषचरित्रम् वैताढ्येऽरिञ्जयपुरे भवं भ्रान्त्वा सुकेतुजीवः प्रतिविष्णुर्बलिनामा जातः । स च पञ्चषष्टिवर्षसहस्रायुः श्याम एकोनविंशद् धनूच्चस्त्रिखण्डभोक्ता सम्पन्नः।। जम्बूद्वीपे दक्षिणभरतार्द्ध चक्रपुरे महाशिरो नृपः । तस्य वैजयन्ती लक्ष्मीवती च द्वे भार्ये । सुदर्शनजीवः सहस्राराच्युत्वा वैजयन्त्याः कुक्षाववतीर्णः । इभेन्दूवृषभसर इति चतुःस्वप्नसूचितबलजन्मा गौर एकोनत्रिंशद्धनुर्मानः पुत्रो जातः । तस्य कृतमानन्द इति नाम।। ___प्रियमित्रजीवोऽपि माहेन्द्राग्युत्वा लक्ष्मीवत्याः कुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्नीरत्नसञ्चय इति सप्तस्वप्नसूचितार्द्धचक्रिजन्मा श्याम एकोनत्रिंशद्धनूञ्चः पुत्रो जातः । कृतं तस्य पुरुषपुण्डरीक इति नाम । प्राप्ततारुण्यौ तालतार्क्षध्वजौ नीलपीताम्बरौ द्वावप्यन्योन्यमतिस्नेहेन वर्तेते । पुरुषपुण्डरीकेण च परिणीता उपेन्द्रसेननृपपुत्री पद्मावती । तां च परिणीतां श्रुत्वा प्रत्यर्द्धचक्री बलिरपहर्तुमागतः । जातं चान्योन्यं तयोर्युद्धम् । युध्यमानयोश्च क्षीणान्यायुधानि। क्षिप्तं बलिना चक्रम् । पुरुषपुण्डरीकेण तेनैव चक्रेण हतो बलिः । उद्घष्टं देवैर्दिविजयत्यर्द्धचक्री पुरुषपुण्डरीक इति। क्षिप्ता च शिरसि पुष्पवृष्टिः । साधितं भरतार्द्धम्। व्यावृत्तेन कटीं यावदुत्पाटिता मगधेषु कोटिशिला।। कौमारे वर्षाणां साढ़े द्वे शते । मण्डलिकत्वे तदेव । दिग्जये षष्टिः। राज्ये चतुःषष्टिः सहस्राश्चतुःशती च चत्वारिंशञ्च । सर्वायुरस्य पञ्चषष्टिसहस्राः। स्वायुः प्रान्ते मृत्वा षष्टिं पृथ्वी प्राप्तः । आनन्दोऽपि भ्रातृविरहवैराग्यात् प्रव्रज्य सर्वकर्मक्षयाद् मोक्षं गतः। पञ्चाशीतिसहस्राः सर्वायुरस्येति।। ।। अरतीर्थे सुभूमचक्रिकथा ।।। अत्रैव भरते विशाले पुरे भूपालो राजा । स कदाचिद् बहुभिर्नृपैः पराभूतः । स्वेनैव वैराग्येण सम्भूतमुनिपादान्ते प्रवव्राज । अनन्यसामान्यप्रभुत्वविषयं निदानं कृत्वा मृतः। जातश्च महाशुक्रे देवः ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy