SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् पद्मस्था मातुलिङ्गोत्पलभृद्दक्षिणदोर्द्वया, पद्माक्षिसूत्रिवामभुजयुगा ।। सर्वपरिवारे च साधूनां पञ्चाशत्सहस्राः । साध्वीनां षष्टिसहस्राः । चतुर्दशपूर्विणां दशाधिका षट्शती । अवधिज्ञानिनां षड्विंशतिशती । मनोविदां सपञ्चाशत् पञ्चविंशतिशती । केवलिनामष्टाविंशतिशती । वैक्रियलब्धिमतां त्रिसप्ततिशती । वादिनां षोडशशती । श्रावकाणां लक्षमेकं चतुरशीतिसहस्राः । श्राविकाणां त्रिलक्षी द्वासप्ततिसहस्राः ।। जातः ।। आसन्नमोक्षश्च प्रभुर्मुनिसहस्रेण समं सम्मेताद्रौ गत्वा मासमनशनेन स्थित्वा मार्गशुक्लदशम्यां रेवत्यामूर्ध्वस्थ एव कर्मक्षयादक्षयं मोक्षसुखमाससाद । मोक्षमहिमा च प्राग्वत् । कौमारे राज्ये चक्रित्वव्रतित्वेषु प्रभोः प्रत्येकमेकविंशतिवर्षसहस्राः । चतुरशीतिवर्षसहस्राः प्रभोः सर्वायुः । श्रीकुन्थुनाथमोक्षाद् वर्षकोटिसहस्रोने पल्योपमतुर्यांशके गते श्रीअरनाथस्य मोक्षः ।। १३७ Jain Educationa International यस्योज्ज्वले हृदयमन्दिरभित्तिभागे न्यस्तं समस्त्यरजिनेशचरित्रचित्रम् । तद्वीक्षणैकरसिकेव कदापि वक्षो, लक्ष्मीः परित्यजति नैव नरस्य तस्य । । १९३ ।। (वसन्ततिलका) ।। आनन्द - पुरुषपुण्डरीक-बलीनां चरित्रम् विजयपुरे सुदर्शनो राजा दमधरमुनिपार्श्वे प्रव्रज्य तपस्तप्त्वा सहस्रारे सुरो भरतक्षेत्रे पोतनपुरे प्रियमित्रो राजा । तस्य भार्यां सुकेतुर्जहार । तत्पराभवात् प्रिय मित्रः प्रव्रज्य तपस्तप्त्वा सुकेतुवधाय कृतनिदानो मृत्वा माहेन्द्रे कल्पे देवो जातः ।। For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy