SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ I त्रिषष्टिशलाकापुरुषचरित्रम् ।। श्रीअरचरित्रम् ।। Jain Educationa International सम्पूरयत्वभिमतान् स मनोरथान् वः श्रीमानरो जिनवरोऽभिनवोरकोयम् । यः सर्वथा कुविषयं निखिलं निषेध्य, सचक्रमीहितगतिं नयति क्षणेन । । १९० ।। (वसन्ततिलका) जम्बूद्वीपे प्राग्विदेहे वत्सविजये सुसीमायां पुर्यां धनपतिर्नृपो राज्यं पालयति । तदीयमण्डलीकेनैकेन स्वदेशे समुपहताः । प्रजास्तदन्तिकं समायातांताभिर्विज्ञप्तं स्वदेशासौ ख्यम् । ततो राज्ञा चिन्तितम् अन्यायेन धनाढ्यता परवधूसङ्गाद्विलासोत्सवः, कारुण्योचितकारुलोककलहाद् दोर्विक्रमोपक्रमः । आदेशैकवशंवदस्वविषय- ग्रामाकरोल्लुण्ठन, व्यापाराज्जितकाशितात् क्व कुशलं यत्रेदृशाः स्युर्गुणा: ? । । १९१ । । (शार्दूलविक्रीडितम्) १३५ अनेनैव ध्यानेन प्ररूढवैराग्यः सहसैव राज्यमृत्सृज्य प्रव्रजितः । दुष्करं च तपस्तप्त्वाऽर्हदादिस्थानकैस्तीर्थकरनामकर्मोपार्जितवान् । चतुर्मासकोपवासपारणे च जिनदासश्रेष्ठिना कारितः पारणकम् । एवमनेकतपः परः समये समाधिना मृत्वा नवमग्रैवेयके देवो जातः । । जम्बूद्वीपे भरतेऽस्मिन्नेव हस्तिनापुरे सुदर्शनो राजा । देवीनामपट्टराज्ञी । फाल्गुनशुक्लद्वितीयायां रेवत्यां नवमग्रैवेयकाच्युत्वा धनपतिनृपजीवस्तस्याः कुक्षाववतीर्णः । मार्गशुक्लदशम्यां रेवत्यां चतुर्दशस्वनसूचिततीर्थकृच्चक्रिजन्मा स्वर्णवर्णो For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy