________________
१३४
त्रिषष्टिशलाकापुरुषचरित्रम् च। स्वयम्भूप्रमुखाः पञ्चत्रिंशत् स्थापिताः प्रभुणा गणभृतः।।
प्रभुतीर्थे च गन्धर्वो यक्षः । स च श्यामो हंसस्थः वरदपाशिदोर्द्वयः । मातुलिङ्गाङ्कुशिवामभुजयुगः । बला शासनदेवी । सा च गौरा मयूरस्था । शूलबीजपुरकभृदक्षिणदोर्द्वया मुषण्ठिपङ्कजिवामभुजयुगा।।
सर्वपरिवारे च प्रभोः षष्टिसहस्राः साधूनाम् । साध्वीनामेत एव षट्शताधिकाः । चतुर्दशपूर्विणां षट्शती सप्ततिः च । अवधिज्ञानिनां पञ्चविंशतिशती । मनःपर्ययिणां त्रयस्त्रिंशच्छती चत्वारिंशञ्च । केवलिनां द्वात्रिंशच्छती । वैक्रियलब्धिमतामेकपञ्चाशच्छती। वादिनां द्वासहस्रा । श्रावकाणां लक्षमेकमशीत्या न्यूनः सहस्रश्च । श्राविकाणां त्रिलक्षी एकाशीतिसहस्री च।।
__आसन्नमोक्षश्च मुनिसहस्रेण समं सम्मेताद्रौ गत्वा मासमनशनेन स्थित्वा वैशाखकृष्णप्रतिपदि कृत्तिकायामूद्ध्वस्थ एवाऽक्षयं सुखं मुक्तौ प्रभुरवाप्तवान्। मोक्षमहिमा च प्राग्वत्। कौमारे राज्ये चक्रित्वे व्रते च प्रत्येकं सार्द्धाष्टमशतात्रयोविंशतिसहस्राः। वर्षाणां पञ्चनवतिसहस्राः प्रभोः सर्वायुः। श्रीशान्तिनाथनिर्वाणादर्द्धपल्योपमे गते श्रीकुन्थुनाथमोक्षः।।
जागर्ति यन्मानसकाननान्तः, श्रीकुन्थुतीर्थेशचरित्रसिंहः । अह्नाय तस्माद् विघटन्त एव, कुकर्ममातङ्गघटाः समस्ताः ।।१८९।। (इन्द्रवज्रा)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org