SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् १३३ जम्बूद्वीपेऽत्रैव भरते हस्तिनापुरे शूरो राजा । श्रीः पट्टराज्ञी । श्रावणकृष्णनवम्यां कृत्तिकायां सिंहावहनृपजीवः सर्वार्थसिद्धविमानाच्च्युत्वा तस्याः कुक्षाववतीर्णः । वैशाखकृष्णचतुर्दश्यां कृत्तिकायां चतुर्दशस्वप्नसूचितचक्रभृत्तीर्थकृज्जन्मा स्वर्णवर्णच्छगल- लाञ्छनः पञ्चत्रिंशद्धनुर्मानः पञ्चनवतिवर्षसहस्रायुर्ज्ञानत्रयधरः सर्वलक्षणसम्पूर्णः पुत्रो जातः । जन्मोत्सवश्च प्राग्वत् । गर्भस्थे प्रभौ जनन्या स्वप्ने कुन्थुनामा रत्नसञ्चयो दृष्टः । ततः पितृभ्यां कुन्थुरिति कृतं नाम । प्राप्ततारुण्यश्च कारितो राजपुत्र्या पाणिग्रहणोत्सवं महाविभूत्या । वर्षाणां त्रयोविंशतिसहस्रेषु सार्द्धाष्टमशतेषु गतेषु पित्रा स्थापितो राज्ये । एतावत्सु च वर्षेष्वतिक्रान्तं`ष्वायुधशालायामुत्पन्नं चक्ररत्नम् । साधितं षट्खण्डमपि भरतक्षेत्रम् । जातश्चक्रवर्तित्वाभिषेकः ।। पूर्वोक्तमेव कालं यावच्चक्रिपदं प्रपाल्य सांवत्सरिकं दानं दत्त्वा कृतषष्ठतपाः शक्रादिकृतनिष्क्रमणोत्सवो वैशाखकृष्णपञ्चम्यां कृत्तिकायां सहस्राम्रवणे गत्वा पश्चिमेऽह्नि वयसि च राज्ञां सहस्रेण समं शक्रन्यस्तदेवदृष्यधारी कृतपञ्चमुष्टिककेशोत्पाटः सर्वं सावद्यं मया निषिद्धमिति चारित्रं प्रतिपन्नवान् । मन:पर्ययज्ञानं चोत्पन्नं प्रभोः । क्षिराब्धिक्षिप्तप्रभुकेशः कृतनन्दीश्वरयात्रो गतः शक्रः स्वस्थानम् । द्वितीयेऽह्नि चक्रपुरे व्याघ्रसिंहनृपगृहे परमान्नेन चकार प्रभुः पारणम् । वसुधारादिकं तत्राविर्बभूव । षोडशाब्दीं यावदन्यत्र विहृत्य पुनः सहस्राम्रवणमेवागतः प्रभुः । तिलकद्रुमतले कृतषष्ठस्य प्रभोश्चैत्रशुक्ल तृतीयायां कृत्तिकायां घातिकर्मक्षयादुत्पन्नं पूर्वाह्न केवलज्ञानम् । समवसरणादिकं च प्राग्वत् । सम्प्राप्ताः शक्रादयः । कृता प्रभुणा देशना - अनादिभवसम्भवा विषयवासना काप्यसौ, तथा कथमपीन्द्रियैर्निविडमात्मनो योजिता । यथास्य निशि निद्रया प्रतिहतेन्द्रियव्यापृते रपि स्फुटमनिद्रवद्विषयपञ्चकासेवनम् ।।१८८ ।। (पृथ्वी) इत्यादिदेशनया प्रतिबुद्धाः प्राज्याः प्राणिनो जगृहुः सर्वविरतिं देशविरत्यादिकं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy