SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३२ त्रिषष्टिशलाकापुरुषचरित्रम् गतेषु श्रीशान्तिनाथस्य मोक्षः ।। विद्योतते हृदयवेश्मनि यस्य दीप्रः, श्रीशान्तिनाथसुचरित्रमणिप्रदीपः । तदर्शनस्य महिमा प्रसरन् कदापि, व्यालुप्यते न खलु मोहमहान्धकारैः ।।१८५।। (वसन्ततिलका) ------------- । ।। श्रीकुन्थुनाथचरित्रम् ।।। कन्दर्पदर्पहरणप्रवणं शरीरम्, श्रीर्दानभोगसुभगा पदमर्त्यमैन्द्रम् । निःशेष एष यदयत्ननतेः प्रभावो जीवेषु वल्गति स कुन्थुजिनोऽवताद् वः ।।१८६ ।। (वसन्ततिलका) जम्बूद्वीपे प्राग्विदेहे आवर्तविजये खड्गिपुर्यां सिंहावहो राजा राज्यं करोति। अन्येद्युः सदस्यासीने तस्मिन् राजनि मात्सर्यादेकेन जनेनागत्य निर्दोषस्यापि दूषणमारोपितम् । ततश्चिन्तितं राज्ञा दोषानेवो-अरितुमसकृत् स्वामभिज्ञां रसज्ञामिभ्यानभ्यर्थयितुमपरान् पाणिमुत्तानमेव । प्रज्ञामज्ञा-नभिभवितुमे-वात्मजन्मापि पाप्मा रम्भायैवोद्वहति किल यो मूर्तमेनः स मर्त्यः ।।१८७ ।। (मन्दाक्रान्ता) इत्यादिभावनया प्रवर्द्धमानवैराग्यः सहसैवोत्सृज्य राज्यं प्रव्रजितः संवरसूरिपावे। दुश्चरं तपश्चरणं कृत्वाऽर्हद्भक्त्यादिभिः स्थानैस्तीर्थकरनामकर्मोपायं मृत्वा च समाधिना सर्वार्थसिद्धिविमाने देवो जातः।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy