________________
१३० त्रिषष्टिशलाकापुरुषचरित्रम् द्वावप्यनुरागपरौ दिनानि गमयतः । अन्यदा श्रुतमिदं वसन्तदेवेन- यत्केसरा वरदत्तनाम्नेऽन्यस्मै वराय पित्रा प्रदत्ता । ततः केसरया- त्वामेवोद्वहामि म्रिये वा तत्रैवोद्याने इति कथयित्वा तस्य पुनरपि धृतिरुत्पादिताऽस्ति।।
एवं च सति सम्प्राप्तो विवाहदिवसः । सम्प्राप्तो वरदत्तः परिणेतुम् । ततो वसन्तदेवोऽत्याकुलतया गत्वा प्रथममेवोद्याने वृक्षशाखायां स्वमुद्वन्ध्य मुक्तवान् । क्षणेन मूर्छितः स । भवितव्यतावशेन तत्र पर्यटता केनापि पुरुषेण दृष्टस्तथास्थितः । सहसैव क्षुरिकया पाशमपास्य जलाद्यैः स्वस्थीकृत्य पृष्टो मरणाध्यवसायहेतुः । कथितः केसरावृत्तान्तस्तेन । ततो वसन्तदेवेनापि स पृष्टः। ततः स प्रोवाचकृत्तिकापुरवास्तव्यः कामपालाभिधांनोऽहम्। शङ्खपुरे चूतनिकुञ्जोद्याने कामायतने मया दृष्टा कन्यकैका। तयाऽप्यहं दृष्टः । स्पृष्टौ द्वावप्यनुरागेण । तदानीं चालानमुन्मूल्य प्रसृतो राजकुञ्जरः। पलायितो दिशो दिशां तस्या: परिच्छदः। तां च यावद् गजो गृह्णाति। तावन्मया प्रहतः पेचके । वञ्चयित्वा च तं तामादायाऽन्यत्र निर्भये स्थाने नीत्वाऽहममुचम्। तत्राऽप्यायातः करी। ततः कोऽपि क्वापि गत। ततः प्रभृति च
नादौ धूमो न भस्मान्ते, यस्य प्रज्वलतः सतः । लक्ष्योऽङ्गशेषतः सैष, विरहाग्निर्ददाह माम् ।।१८४।।
तदुपशमाय परिभ्रमाम्यहम् । साम्प्रतं च त्वं मे मित्रम् । ततस्त्वत्कार्याय त्वरिष्ये ।।
तत्र चायमुपाय: । आवां कामायतने स्थास्यावः । सा च समेष्यति । तन्नेपथ्योऽहं भूत्वा केसरैवेयमिति निर्विकल्पैस्तल्लोकः समं तद्गृहे गत्वा केनापि व्याजेन निर्गमिष्यामि । त्वं तु केसरां गृहीत्वा स्वेच्छं गच्छेरिति । द्वाभ्यामपि कृतं तथा । क्षणान्तरे सम्प्राप्ता केसरापि कामपूजार्थाम् । वसन्तदेवेन केसरासत्कं नेपथ्यादिकं कामपालाय दापितम् । कामपालनेपथ्यं च कारिता केसरा । द्वावपि निसृत्य गतौ समीहितस्थानम् । कामपालोऽपि केसरावेषो भूत्वा पञ्चनन्दिगृहे १ पुच्छमूले।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org