________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१२९
एवं सपरिवारपरिवृतः प्रभुरन्यत्राऽन्यत्र विहृत्य पुनरप्यागतो हस्तिनापुरे । तत्र च वन्दित्वा समये पृष्टं कुरुचन्द्रेण राज्ञा । भगवन् ! केन कर्मणा मम राज्यं सम्पन्नं, प्रतिदिनं च पञ्चानां वस्तूनां समागमः ? केन च कर्मणा तेषां मध्यादेकस्यापि वस्तुनो भोगं त्यागं वा कर्तुं न लभे इति । प्रभुरप्युवाच- पूर्वं श्रीपुरनगरात् सुधनो धनपतिर्धनदत्तो धनेश्वरश्चेति चत्वारः सोदरः । धनोपार्जनार्थं द्रोणस्य कर्मकरस्य शिरसि शम्बलमारोप्य रत्नद्वीपे प्रचलिताः । महाटवीतीरगतानां च तेषां त्रुटितप्रायं जातं शम्बलम् । तत्र च ध्यानस्थो मुनिरेकः परतटमाक्रमद्भिस्तैर्दृष्टः । प्रणतः सबहुमानं तैः चिन्तितं च हृदये । यदि कृतपारणको मुनिरटवीं प्रविशति तदायं नखिद्यते वयं चोत्तीर्णाः- इत्यालोच्य चतुर्भिर्भणितो द्रोणो, भद्र ! कारय महामुनिं पारणमिति । ततस्तेनानुमोदमानेन चिन्तितम्
स्वाम्यादेशः पेशलोऽपेशलो वा, कार्यः सर्वः सेवकैर्निर्विचारम् ।
सस्याद् दैवात् पेशलश्चेत् कथञ्चित्,
तत्तद्भाग्यं केवलं जागरूकम् ।।१८३ ।। (शालिनी)
I
ततो भक्तिसारं सारवस्तुनाऽन्नादिकेन तेन कारितो मुनिः पारणम्। महाभोगफलमुपार्जितं तदा तेन कर्म । तेषां च रत्नद्वीपे गतानां सम्पन्नानि चिन्तितानि रत्नानि । स्वस्थानगतानां च जातो मनः समीहिताभ्यधिको लाभः । दानभोगपराश्च गमयन्ति ते कालम् । परं धनेश्वरधनपती किञ्चिन्मायाबहुलौ स्वभावेन ।।
।
प्रथमं च द्रोणको विपद्य दानप्रभावाद् हस्तिनापुरस्वामिनः पुत्रः कुरुचन्द्र इति नाम्नात्वं जातः । ततः सुधनधनदत्तौ मृत्वा काम्पील्ये कृत्तिकापुरे च वसन्तदेवकामपालाख्यौ व्यवहारिणः पुत्रौ जातौ । धनपतिधनेश्वरौ च मृत्वा शङ्खपुरे जयन्त्यां च मदिराकेसराख्ये व्यवहारिणो पुत्र्यौ जाते । चत्वारोऽपि क्रमेण प्राप्ता यौवनम् । काम्पील्याद् वसंतदेवो व्यवहर्तुं जयन्त्यां गतः । कामायतने तेन दृष्टा केसरा । तयापि स प्रेक्षितः । प्रादुर्भूतो द्वयोरपि स्नेहानुबन्धः । अन्योन्यप्रतिपन्नविवाहौ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org