________________
१२८
त्रिषष्टिशलाकापुरुषचरित्रम् समुत्पन्नं चक्ररत्नम् । ततः साधितं तेन षटखण्डमपि भरतक्षेत्रम् । जातस्तस्यैव हस्तिनापुरे चक्रवर्तित्वाभिषेकः ।।
पञ्चविंशत्यब्दसहस्री यावञ्चक्रवर्तित्वपदं प्रपाल्य दत्त्वा सांवत्सरिकं दानं कृतषष्ठतपाः शक्रादिकृतनि:क्रमणोत्सवः सहस्राम्रवणे गत्वा ज्येष्ठकृष्णचतुर्दश्यां भरण्यां पश्चिमेऽह्नि वयसि च नृपसहस्रेण समं शक्रन्यस्तदेवदूष्यधारी कृतपञ्चमुष्टिक केशोत्पाटः प्रभुः सावधं मया निरस्तमिति चारित्रं प्रतिपन्नवान् । समुत्पन्नं मनःपर्ययज्ञानं प्रभोः । शक्रोऽपि क्षीराब्धौ क्षिप्त्वा प्रभुकेशान् कृतनन्दीश्वरयात्रः सम्प्राप्तः स्वं स्थानम् । द्वितीयदिने मन्दिरपुरे सुमित्रनृपगृहे परमानेन चकार प्रभुः पारणम् । वसुधारादिपञ्चदिव्यान्याविष्कृतानि देवैः । अनासीनोऽशयानश्च द्वादशमासान् (?) यावदन्यत्र विहत्य पुनरपि तस्मिन्नेवोद्याने समेत्य नन्दितरुतलस्थः कृतषष्ठतपाः पौषशुद्धनवम्यां भरण्यां क्षीणघातिकर्मा पूर्वाह्ने केवलज्ञानमुत्पादितवान् । समवसरणादिकं च प्राग्वत्। समायाताः शक्रादयश्चक्रायुधनृपप्रभृतयश्च । कृता प्रभुणा देशना
नित्यत्वांबुमरुः सुखाद्रिकुलिशं वैरस्यकन्दाम्बुदः, खेदाम्भोजलधिः पराभवतरुद्रोणीवसन्तागमः । श्रेयःसम्भवविन्ध्यभूधरसमुल्लासैककुम्भोद्भवः, के संहर्तुमलं भवो न भववजागर्ति तजाग्रत ।।१८२।। (शार्दूलविक्रीडितम्)
इत्याद्याकर्णयतां जातः प्राज्यानां जनानां प्रतिबोधः । चक्रायुधनृपेण च पुत्रं कुरुचन्द्रं राज्ये न्यस्य नृपाणां पञ्चत्रिंशता समं गृहीतं व्रतम् । अन्यैश्च भूयोभिर्जनैः प्रतिपन्नं प्रव्रज्यासम्यक्त्वादिकम् । प्रभुणाऽपि स्थापिताश्चक्रायुधादयः षट्त्रिंशद् गणधराः।।
प्रभुतीर्थे गरुडो यक्षः। स च गजस्थोऽसितः सूकरमुखो बीजपुराब्जभृदक्षिणदोर्द्वयो नकुलाक्षसूत्रिवामभुजयुग्मः। निर्वाणी शासनदेवता। सा च गौरा पद्मस्था पुस्तकाब्जभृद्दक्षिणदोर्युगा कमलकमण्डलुमद्वामभुजयुग्मा।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org