________________
१२७
त्रिषष्टिशलाकापुरुषचरित्रम् १२७ तपःकृशतमवपुर्मनसि विस्मृतियोषिताम्, पुराणमुनिसत्कथाश्रुतिरशीललीलोज्झनम् निजेन्द्रियजयः शमो गतकषायता ध्यानमि-.
त्यमीषु किल हेतुषु स्फुरति कामना कापि न।।१८१।। (पृथ्वी) अयं च कारणकलापः सम्पूर्णः साधुनामेव सम्पत्तिमर्हति । अस्य पुनर्गार्हस्थ्यसौख्येऽप्यन्यैव कापिलिपि(?)रित्युदीर्य व्यर्थीभूय च जग्मतुः स्वं स्थानम्।।
अन्यदार्हन् श्रीघनरथस्तत्र समवसृतः। ततो मेघरथनृपः पुत्रे मेघसेने राज्यं रथसेने च यौवराज्यं निधाय दृढरथेन पुत्राणां सप्तशत्या राज्ञां चतुःसहस्रया च समं प्रव्रजितः । दुस्तपं तपस्तप्त्वा तीर्थकरनामकर्मोपाW पूर्वलक्षं यावत् प्रव्रज्यां प्रपाल्याऽम्बरतिलकगिरौ दृढरथेन सममनशनेन समाधिना च मृत्वा सर्वार्थसिद्धविमाने त्रयस्त्रिंशत् सागरोपमायुष्कौ द्वावपि जातौ देवौ ।।१०-११।।
जम्बूद्वीपे दक्षिणभरतार्द्ध कुरुक्षेत्रे हस्तिनापुर इक्ष्वाकुवंश्यः श्रीविश्वसेनो राजा । अचिरादेवी पट्टराज्ञी । सर्वार्थसिद्धविमानाद् भाद्रपदकृष्णसप्तम्यां भरण्यां च्युत्वा मेघरथनृपजीवोऽचिरादेव्याः कुक्षाववतीर्णः । ज्येष्ठकृष्णत्रयोदश्यां भरण्यां चतुर्दशस्वप्नसूचितार्हज्जन्मा स्वर्णवर्णो मृगलाञ्छनश्चत्वारिंशद्धनुर्मानो वर्षलक्षायुर्ज्ञानत्रयधरः सर्वलक्षणसम्पूर्णः समये जातः पुत्रः । तदानीं नारका अपि सुखमवापुः । जन्मोत्सवश्च प्राग्वत् । गर्भस्थप्रभौ चिरकालजमशिवं रोगाश्च सर्वेऽप्युपशमन्ति स्म। ततः शान्तिरिति प्रभोः पितृभ्यां नाम कृतम् ।।
___ प्राप्ततारुण्यश्च पित्रा यशोमतीप्रभृतीनां राजकन्यानां कारितः पाणिग्रहणम्। पञ्चविंशत्यब्दसहस्रान्तेऽभिषिक्तः पित्रा राज्ये । स्वयं चाऽश्वसेननृपः स्वकार्यसाधको जातः । दृढरथजीवोऽपि सर्वार्थसिद्धाच्युत्वा यशोमतीकुक्षाववतीर्णः । समये च चक्रस्वप्नसूचितोत्तमत्वः पुत्रो जातः । कृतं चक्रायुध इति नामास्य । प्राप्तयौवनः प्रधानराजपुत्री परिणायितो महोत्सवेन । प्रभोरथायुधशालायां पञ्चग्वशत्यब्दसहस्रान्ते
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org